SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मृच्छकटि कुक्केहि कुक्कीहि अ बुक्कअन्ते जधा शिआले शलणं पलामि ॥ ५२ ॥ (क) (परिक्रम्य निष्क्रान्तौ ।) विदूषकः - भोदि रदणिए, ण क्खु दे अअं अवमाणो तत्तभवदो चारुदत्तस्स णिवेदइदव्वो । दोग्गच्च पीडिअस्स मण्णे दिउ दरा पीडा हुविस्सदि । (ख) रदनिका - अज मित्तेअ, रदणिआ क्खु अहं संजदमुही । (ग) विदूषकः – एवं णेदम् । (घ) चारुदत्तः - ( वसन्तसेनामुद्दिश्य ) रदनिके, मारुताभिलाषी प्रदोषसमयशीतार्तो रोहसेनः । ततः प्रवेश्यतामभ्यन्तरनयम् । अनेन प्रावारकेण छादयैनम् । ( इति प्रावारकं प्रयच्छति ।) ४२ वसन्तसेना - (स्वगतम् ।) कधं परिअणोत्ति मं अवगच्छदि । (प्रावारकं गृहीत्वा समाघ्राय च स्वगतं सस्पृहम् ।) अम्हहे, जादीकुसुमवासिदो पावारओ | अणुदासीणं से जोब्वणं पडिभासेदि । (ङ) ( अपवारित केन प्रावृणोति ।) (क) निर्वल्ककं मूलकपेशिवर्ण स्कन्धेन गृहीत्वा च कोशसुप्तम् । कुक्कुरैः कुक्कुरीभिश्च बुक्कयमानो यथा शृगालः शरणं प्रयामि ॥ (ख) भवति रदनिके, न खलु तेऽयमपमानस्तत्रभवतश्चारुदत्तस्य निवेदयितव्यः । दौर्गत्यपीडितस्य मन्ये द्विगुणतरा पीडा भविष्यति । (ग) आर्य मैत्रेय, रदनिका खल्वहं संयतमुखी । (घ) एवमिदम् । (ङ) कथं परिजन इति मामवगच्छति । आश्चर्यम्, जातीकुसुमवासितः प्रावारकः । अनुदासीनमस्य यौवनं प्रतिभासते । मित्यर्थः। कुक्कुरैः कुक्कुरीभिश्च शब्दायमानो यथा शृगालस्तथा स्वगृहं प्रयामि । विदूषकरदनिके कुक्कुरकुक्कुरीस्थाने ॥ ५२ ॥ न खलु ते परिभवश्चारुदत्तस्य निवेदयितव्यः । दौर्गत्यपीडितस्य द्विगुणतरा पीडा भविष्यति ॥ एवं णेदमिति एवार्थे ॥ रोहसेनश्चारुदत्तसुतः || अम्ह हे विस्मये । अनुदासीनं साभिलाषम् ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy