________________
प्रथमोऽङ्कः ।
विदूषकः - भणिस्तम् । (क)
शकार: – (अपवार्य ।) चेडे, गडे शच्चकं ज्जेव भावे । (ख)
चेटः - अध ई । (ग)
शकारः - ता शिग्घं अवक्कमम्ह । (घ)
चेट: - ता गेहदु भट्टके अशिम् । (ङ)
शकारः - तव ज्जेव हत्थे चिट्ठदु । (च) चेट:- एशे भट्टालके । गेहदु णं भट्टके अशिम् । (छ) शकारः – (विपरीतं गृहीत्वा 1)
णिव्वक्कलं मूलकपेशिवण्णं खन्धे घेत्तृण अ कोशशुत्तम् ।
शोभनं भणिष्यसि, सकपटं भणिष्यसि । तथा भणिष्यसि यथाहमात्मकीयायां प्रासादबालाग्रकपोतपालिकायामुपविष्टः शृणोमि । अन्यथा यदि भणसि, तदा कपाटप्रविष्टकपित्थगुलिकमिव मस्तकं ते मडमडायिष्यामि ।
(क) भणिष्यामि ।
(ख) चेटः गतः सत्यमेव भावः ।
(ग) अथ किम् ।
(घ) तच्छीघ्रमपक्रमावः ।
४१
(ङ) तद्गुण्हातु भट्टारकोऽसिम् ।
(च) तवैव हस्ते तिष्ठतु ।
(छ) एष भट्टारकः । गृहात्वेनं भट्टारकोऽसिम् ।
अन्यथा यदि भणसि तदा कपाटप्रविष्टं कपित्थगुलिकमिव मस्तकं तव शब्दविशेषयुक्तं तथा भक्षयिष्यामि लोकोक्त्या मडमडायिश्शमिति व्याख्यायते । कपित्थं फलविशेषः । 'लस्तकं शोस्तकं द्वयमपि शोभनार्थम्' इति प्राचीनटीका ॥ हे चेट, गतो भावो विटः सत्यम् ॥ ततः शीघ्रमपक्रमावः ॥ गृह्णातु भट्टारकोऽसिम् ॥ तवैव हस्ते तिष्ठतु ॥ एषोऽसिः । भट्टारकः खामिकः । गृह्णात्वेनं भट्टारकोऽसिम् ॥ णिव्वक्कलमित्यादि । उपजातिच्छन्दसा | निर्वल्कलं मूलकपेशिवण्णम् । पेशी - त्वक् । मूलकत्वग्वर्णम् । आलोहितमित्यर्थः । स्कन्धेन गृहीत्वा च कोशीषु सुप्तम् । अल्पार्थे स्त्रीत्वम् । कोशावस्थित
I
-
1