________________
५०
मृच्छकटिके कश्चालुका गोच्छडडित्तवेण्टा
शाके अ शुक्खे तलिदे हु मंशे । भत्ते अ हेमन्तिअलत्तिशिद्धे
लीणे अ वेले ण हु होदि पूदी ॥ ५१ ॥ शोश्तकं भणेशि, लश्तकं भणेशि । तधा भणेशि जधा हगे अत्तणकेलिकाए पाशादबालग्गकवोदवालिआए उवविढे शुणामि । अण्णधा जदि भणेशि, ता कवालपविट्ठकवित्थगुडिअं विअ मश्तरं दे मडमडाइश्शम् (क)
(क) अरे दुष्टबटुक, भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम्'एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा । तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविष्यति । अथवानिर्यातयतो मरणान्तिकं वैरं भविष्यति । अपि च प्रेक्षस्व ।
कूष्माण्डी गोमयलिप्तवृन्ता
शाकं च शुष्कं तलितं खलु मांसम् । • भक्तं च हैमन्तिकरात्रिसिद्ध
लीनायां च वेलायां न खलु भवति पूतिः ॥ वैरं भविष्यति । अपि च प्रेक्षख। कश्वालुका इत्यादि । उपजातिच्छन्दसा । कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं पलिरं प्रचुरप्रलेहं मांसम् । 'तलिदं स्नेहपक्के देशी' इत्येके । 'भडिदे' इति पाठे भटित्रमित्यर्थः । 'शूलाकृतं भटित्रं च' इत्यमरः । नक्तं च हैमन्तिकरात्रिसिद्धं लीणे अ ऋणं च वैरं च न भवति । पूदी पूतिः ॥ चिरंतनत्वेन प्रशिथिलं खकार्यम् ॥ ५१ ॥ शोस्तकं शोभनम् । लस्तकं सकपटम् । भणिष्यसि । तथा भणिष्यसि । भण(णे)शीति भविष्यद्वर्तमानयोस्तुल्यं रूपम् । यथाहमात्मकीयायां प्रासादस्य बालाग्रलक्षितायां कपोतपालिकायां विटङ्के । 'बालागं मत्तवारणम्' । कपोतपालिका उपरिगृहश्रेणीति दक्षिणापथे लोकोक्तिरियम्' इति प्राचीनटीका । तस्यामुपविष्टः शृणोमि ।