________________
मृच्छकटिके------
३८
विट:-एवम् । गच्छामि । (इति निष्कान्तः।)
शकारः-गडे क्खु भावे अभावम् । (विदूषकमुद्दिश्य ।) अले काकपदशीशमश्तका दुट्टबडुका, उवविश उवविश । (क)
विदूषकः-उववेसिदा जेव अम्हे । (ख) शकारः-केण । (ग) विदूषकः-कअन्तेण । (घ) शकारः-उद्देहि उद्देहि । (ङ) विदूषकः-उहिस्सामो । (च) शकार:-कदा । (छ) विदूषकः-जदा पुणो वि देव्वं अणुऊलं भविस्सदि । (ज) शकारः—अले, लोद लोद । (झ) विदूषकः—रोदाविदा जेव अम्हे । (ञ) (क) गतः खलु भावोऽभावम् । अरे काकपदशीर्षमस्तक दुष्टबटुक, उपविशोपविश ।
(ख) उपवेशिता एव वयम् । (ग) केन । (घ) कृतान्तेन । (ङ) उत्तिष्ठोत्तिष्ठ । (च) उत्थास्यामः। (छ) कदा। (ज) यदा पुनरपि दैवमनुकूलं भविष्यति । (झ) अरे, रुदिहि रुदिहि ।
(ब) रोदिता एव वयम् । वमदर्शनम् । काकपदशीशमश्तका इति । द्यूताद्यकार्यप्रवृत्तौ काकपदाकारा ये धूर्तास्तेषां शीर्षप्राया ग्रामण्यस्तेषां मस्तकभूत धूर्तचक्रवर्तिनामपि प्रधानभूत । एतेनाचारकुलयोराक्षेपः कृतः । केचित्तु-'काकपदशीर्ष काकपदवत्पञ्चधा शीर्ष मस्तकं यस्य । पञ्चेत्युपलक्षणम् । अष्टकपालः । तेनालक्षणयुक्तमस्तक इत्यर्थः' इत्याहुः । अत्र च मते शीशमश्तका इति शकारवाणीत्वेन पुनरुक्तत्वं न दोषः ।