SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । विट:- मूर्ख, आर्यचारुदत्तः खल्वसौ । दीनानां कल्पवृक्षः स्वगुणफलनतः सज्जनानां कुटुम्बी आदर्शः शिक्षितानां सुचरितनिकषः शीलवेलासमुद्रः । सत्कर्ता नावमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्त्वो ह्येकः : श्लाघ्यः स जीवत्यधिकगुणतया चोच्छ्रसन्तीव चान्ये ॥४८॥ तदितो गच्छामः । शकारः - अगेव्हिअ वशन्तशेणिअम् । (क) विट:- नष्टा वसन्तसेना । शकारः ——–कथं विअ । (ख) - विट: · अन्धस्य दृष्टिरिव पुष्टिरिवातुरस्य मूर्खस्य बुद्धिरिव सिद्धिरिवालसस्य । स्वल्पस्मृतेर्व्यसनिनः परमेव विद्या ३७ त्वां प्राप्य सा रतिरिवारिजने प्रनष्टा ॥ ४९ ॥ शकारः - अगेव्हिअ वशन्तशेणिअं ण गमिश्शम् । (ग) विट: - एतदपि न श्रुतं त्वया । आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते । हृदये गृह्यते नारी यदिदं नास्ति गम्यताम् ॥ ५० ॥ शकारः – यदि गच्छशि, गच्छ तुमम्। हगे ण गमिश्शम् । (घ) (क) अगृहीत्वा वसन्तसेनाम् । (ख) कथमिव । (ग) अगृहीत्वा वसन्तसेनां न गमिष्यामि । (घ) यदि गच्छसि गच्छ त्वम् । अहं न गमिष्यामि । त्थामा धर्मपुत्रो जटायुः ॥ व्यर्थ विरुद्धार्थम् । श्वेतकेतुरौद्दालकिर्दुर्वाससो मातुलः ऋषिविशेषः । इन्द्रदत्तो बृहत्कथाप्रलम्भके रूयंशे संस्थितः ॥ ४७ ॥ दीनानामिति । सज्जनानां कुटुम्ब्युपजीव्यः ॥ ४८ ॥ अगृहीत्वा वसन्तसेनाम् ॥ नष्टादर्शनं गता ॥ अन्धस्येति ॥ ४९ ॥ आलान इति । यदि चेदर्थे । चेन्नास्ति तदा गम्यताम् ॥ ५० ॥ गतः खलु भावोऽभामृ० ४
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy