________________
३६
मृच्छकटिके विटः-भीतोऽस्मि ।-- शकार:-कश्श तुमं भीदे । (क) विट:-तस्य चारुदत्तस्य गुणेभ्यः ।
शकारः-के तश्श गुणा जश्श गेहं पविशिअ अशिदव्वं पि णत्थि । (ख) विटः-मा मैवम् ।
सोऽस्मद्विधानां प्रणयैः कृशीकृतो ___ न तेन कश्चिद्विभवैर्विमानितः। , निदाघकालेष्विव सोदको हृदो ,
नृणां स तृष्णामपनीय शुष्कवान् ॥ ४६ ॥ शकारः-(सामर्षम् ।) के शे गब्भदासीए पुत्ते
शूले विकन्ते पण्डवे शेदकेदू ___ पुत्ते लाधाए लावणे इन्ददत्ते ।। आहो कुन्तीए तेण लामेण जादे
अश्शत्थामे धम्मपुत्ते जडाऊ ॥ ४७ ॥ (ग) (क) कस्मात्त्वं भीतः। (ख) के तस्य गुणा यस्य गृहं प्रविश्याशितव्यमपि नास्ति । (ग) कः स गर्भदास्याः पुत्रः
शूरो विक्रान्तः पाण्डवः श्वेतकेतुः
पुत्रो राधाया रावण इन्द्रदत्तः । आहो कुन्त्या तेन रामेण जातः
अश्वत्थामा धर्मपुत्रो जटायुः ॥
के तस्य गुणा यस्य गृहं प्रविश्याशितव्यं भोक्तव्यमपि नास्ति । यद्वा । अन्हिअदव्वं पिआह्निलद्रव्यमद्य भोक्तव्यमपीत्यर्थः॥स इति।प्रणयैःप्रार्थनाभिः। 'स्नेहप्रकारैः समयोचितदानैरित्यर्थः' इत्येके॥४६॥के शेगब्भदासीए पुत्तेशूले इत्यादि। श्लोको वैश्वदेव्या वृत्तेन । कः स गर्भदास्या जन्मदास्याः पुत्रः शूरो विक्रान्तः पाण्डवः श्वेतकेतुः पुत्रोराधाया रावण इन्द्रदत्तः। आहो उषायास्तेन रामेण जातोऽश्व