________________
प्रथमोऽङ्कः।
विदूषकः-किं इअम् । (क) विट:-शान्तं पापम् ।
काचित्स्वाधीनयौवना । ___ सा नष्टा शङ्कया तस्याः प्राप्तेयं शीलवञ्चना ॥ ४४ ॥ सर्वथा इदमनुनयसर्वस्वं गृह्यताम् । (इति खड्गमुत्सृज्य कृताञ्जलि: पादयोः पतति ।)
विदूषकः-सप्पुरिस, उढेहि उद्वेहि । अआणन्तेण मए तुम उवालद्धे । संपदं उण जाणन्तो अणुणेमि । (ख)
विटः-ननु भवानेवात्रानुनेयः । तदुत्तिष्ठामि समयतः । विदूषकः, भणादु भवम् । (ग) विटः-यदीमं वृत्तान्तमार्यचारुदत्तस्य नाख्यास्यसि । विदूषकः-न कधइस्सम् । (घ) विट:--
एष ते प्रणयो विप्र शिरसा धार्यते मया ।
गुणशस्त्रैर्वयं येन शस्त्रवन्तोऽपि निर्जिताः ॥ ४५ ॥ शकारः-(सासूयम् ।) किं णिमित्तं उण भावे, एदश्श दुट्टबडुअश्श किविणअञ्जलिं कदुअ पाएशु णिवडिदे । (ङ) (क) किमियम् ।
(ख) सत्पुरुष, उत्तिष्ठोत्तिष्ठ । अजानता मघा त्वमुपालब्धः । सांप्रतं पुनर्जानन्ननुनयामि ।
(ग) भणतु भवान् । (घ) न कथयिष्यामि । (ङ) किंनिमित्तं पुनर्भाव, एतस्य दुष्टबटुकस्य कृपणाञ्जलिं कृत्वा पादयोर्निपतितः। नापराधाय । सा वेश्या तिष्ठति न वियमित्याशयः । शीलवश्चना दुश्चरितसंभावना ॥ ४४ ॥ सत्पुरुष, उत्तिष्टोत्तिष्ठ । अजानता मया खमुपालब्धः । सांप्रतं पुनर्जानननुनयामि । आदरविषयतानुनयः ॥ समयः क्रियाबन्धः ॥ समयमेवाहयदीममिति ॥ एष इति । गुणशस्त्रैः गुणा एव शस्त्राणि तैः ॥ ४५ ॥ किंनिमित्तं पुनर्भाव, एतस्य दुष्टबटुकस्य पादयोर्निपतितः । किविणं कृपणम् ॥