________________
३४
मृच्छकटिके विट:-महाबाह्मण, मर्षय मर्षय ।
विदूषकः-(विटं दृष्ट्वा ।) ण एत्थ एसो अवरज्झदि । (शकारं दृष्ट्वा ।) एसो क्खु एत्थ अवरज्झदि । अरे रे राअसालअ संट्ठाण दुजण दुम्मणुस्स, जुत्तं णेदम् । जइ वि णाम तत्तभवं अजचारुदत्तो दलिदो संवुत्तो, ता किं तस्स गुणेहिं ण अलंकिदा उजइणी । जेण तस्स गेहं पविसिअ परिअणस्स ईरिसो उवमद्दो करीअदि।
मा दुग्गदोत्ति परिहवो णत्थि कअन्तस्स दुग्गदो णाम । चारित्तेण विहीणो अड्डो वि अ दुग्गदो होइ ॥.४३ ॥ (क) विटः-(सवैलक्ष्यम् ।) महाब्राह्मण, मर्षय मर्षय । अन्यजनशङ्कया खल्विदमनुष्ठितम्, न दर्पात् । पश्य ।
सकामान्विष्यतेऽस्माभिः पुनरहं ब्राह्मणः । तदेतेनास्मादृशजनभागधेयकुटिलेन दण्डकाष्ठेन दुष्टस्येव शुष्कवेणुकस मस्तकं ते प्रहारैः कुट्टयिष्यामि ।
(क) नात्र एषोऽपराध्यति । एष खल्वत्रापराध्यति । अरे रे राजश्यालक संस्थानक दुर्जन दुर्मनुष्य, युक्तं नेदम् । यद्यपि नाम तत्रभवानार्यचारुदत्तो दरिद्रः संवृत्तः, तत्किं तस्य गुणैर्नालंकृतोज्जयिनी । येन तस्य गृहं प्रविश्य परिजनदृश उपमर्दः क्रियते।
मा दुर्नत इति परिभवो नास्ति कृतान्तस्य दुर्गतो नाम ।
चारित्र्येण विहीन आढ्योऽपि च दुर्गतो भवति ॥ भवत्येवेत्यर्थः । पाठान्तरे चोडे कर्णनासिकाशून्यः । दुट्टस्स विअ दुष्टस्येव । आचरितद्वेषस्य वैरिणः । यद्वा । दुष्टश्चानपराधोऽपि निग्रहं प्राप्नोत्येवेत्यर्थः । शुष्कवंशप्रहारेण । शुष्कोऽतिदीर्घत्वप्रतिपादनाय । एवंभूतस्य शिरः कुट्यते । तथा तव शिरः कुट्टिष्यामि ॥ राजश्यालकेत्यादि । संस्थानक इति तस्त्र नाम । उपमर्दो निग्रहः । मा दुग्गदो इति । गाथा । मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दे(दै)वस्य दुर्गतो नाम । नाम संभाबनायाम् । चारित्र्येण विहीन आब्योऽपि दुर्गतो दरिद्रो भवति ॥ ४३ ॥ महाब्राह्मणश्वाण्डालः । सकामेति । सकामा स्वाधीनयौवनेतिपदाभ्यामस्या धारणं