________________
मृच्छकटिके
अक्कोश विक्कोश लबाहिचण्डं
शंभुं शिवं शंकलमीशलं वा ॥ ४१ ॥ (क) रदनिका ( सभयम् ) किं अज्जमिस्सेहिं ववसिदम् । (ख) विटः — कालीमातः, अन्य एवैष स्वरसंयोगः । शकार : - भावे भावे, जधा दहिशरपलिलुद्धाए मज्जालीए शलपलिवत्ते होदि, तधा दाशीए धीए शलपलिवत्ते कडे । (ग) विटः कथं स्वरपरिवर्तः कृतः । अहो चित्रम् । अथवा किमत्र चित्रम् ।
इयं रङ्गप्रवेशेन कलानां चोपशिक्षया । वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता ॥ ४२॥
(प्रविश्य) विदूषकः - ही ही भोः, पदोसमन्दमारुदेण पसुबन्धोवणीदस्स विअ छागलस्स हिअअम्, फुरफुराअदि पदीवो । (उपसृत्य रदनिकां दृष्ट्वा 1) भो रदणिए । (घ)
(क)
एषासि वासु शिरसि गृहीता केशेषु बालेषु शिरोरुहेषु । आक्रोश विक्रोश लपाधिचण्डं शंभुं शिवं शंकरमीश्वरं वा ॥ (ख) किमार्यमिश्रैर्व्यवसितम् ।
(ग) भाव भाक, यथा दधिसरपरिलुब्धाया मार्जारिकायाः स्वरपरिवृत्ति - र्भवति, तथा दास्याः पुत्र्या स्वरपरिवृत्तिः कृता ।
(घ) आश्चर्य भोः, प्रदोषमन्दमारुतेन पशुबन्धोपनीतस्येव छागलस्य हृदयम्, फुरफुरायते प्रदीपः । भो रदनिके ।
३२
एषासि बाला शिरसि केशेषु बालेषु शिरोरुहेषु गृहीता । आक्रोश विक्रोश लप । अधिचण्डमत्युचैः । हिशब्द एव वा । चण्डं महादेवं च । शंभुं शिवं शंकरमीश्वरं वा ॥ ४१ ॥ आर्यमिश्रैर्मान्यैः । व्यवसितमारब्धम् । भाव, यथा दधिभक्तलुब्धायां मार्जारिकायां खरपरिवृत्तिर्भवति तथैतया खरपरिवृत्तिः कृता । 'दहिशर' इति पाठे 'छल्लि' इति पाठेऽपि शरो दन उपरिभागः ॥ इयमिति ॥ ४२ ॥ ही ही भो इति परितोषे । पशुबन्धोपनीतस्येव छागलस्य हृदयं फुरफुरायति अत्यर्थ