SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके चारुदत्तः-रदनिके, मैत्रेयमनुगच्छ । चेटी-जं अज्जो आणवेदि । (क) विदूषकः-भोदि रदणिए, गेण्ह बलिं पदीवं अ । अहं अपावुदं पक्खदुआरअं करेमि । (ख) (तथा करोति ।) वसन्तसेना-मम अब्भुववत्तिणिमित्तं विअ अवावुदं पक्खदुआरअम् । ता जाव पविसामि । (दृष्ट्वा ।) हद्धी हद्धी । कधं पदीवो । (ग) (पटान्तेन निर्वाप्य प्रविष्टा ।) चारुदत्तः-मैत्रेय, किमेतत् । विदूषकः-अवावुदपक्खदुआरएण पिण्डीभूदेण वादेण णिव्वाविदो पदीवो । भोदि रदणिए, णिकम तुमं पक्खदुआरएण । अहंपि अब्भन्तरचदुस्सालादो पदीवं पजालिअ आअच्छामि । (घ) (इति निष्क्रान्तः ।) शकारः-भावे भावे, अण्णेशामि वशन्तशेणिअम् । (ङ) विट:-अन्विष्यतामन्विष्यताम् । शकारः-(तथा कृत्वा ।) भावे भावे, गहिदा गहिदा । (च) (क) यदार्य आज्ञापयति । (ख) भवति रदनिके, गृहाण बलिं प्रदीपं च । अहमपावृतं पक्षद्वारकं करोमि । (ग) ममाभ्युपपत्तिनिमित्तमिवापावृतं पक्षद्वारकम् । तद्यावत्प्रविशामि । हा धिक् हा धिक् । कथं प्रदीपः । (घ) अपावृतपक्षद्वारेण पिण्डीभूतेन वातेन निर्वापितः प्रदीपः । भवति रदनिके, निष्काम त्वं पक्षद्वारकेण । अहमप्यभ्यन्तरचतुःशालातः प्रदीपं प्रज्वाल्यागच्छामि। (ङ) भाव भाव, अन्वेषयामि वसन्तसेनिकाम् । (च) भाव भाव, गृहीता गृहीता । सहाइणी द्वितीया ॥ अपावुदं अपावृतम् ॥ अभ्युपपत्तिरनुग्रहः । स्थगितद्वारेणापसरणाभावात्पिण्डीभूतेनैकीभूतेन प्रतिबन्धकत्वात् । अपावृते पक्षद्वारे सति
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy