SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । विदूषकः - भो, ण गमिस्सम् । (क) चारुदत्तः —– धिक्कष्टम् । दारिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः । सत्त्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते ॥ ३६॥ अपि च । सङ्गं नैव हि कश्चिदस्य कुरुते संभाषते नादरात्संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते । दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥ ३७ ॥ अपि च । २९ दारिद्र्य शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा । विपन्नदेहे मयि मन्दभाग्ये ममेति चिन्ता व गमिष्यसि त्वम् || ३८ ॥ विदूषकः - (सवैलक्ष्यम् ।) भो वअस्स, जइ मए गन्तव्त्रम्, ता एसा वि मे सहाइणी रदणिआ भोदु । (ख) (क) भोः, न गमिष्यामि । (ख) भो वयस्य, यदि मया गन्तव्यम्, तदेषापि मम सहायिनी रदनिका भवतु | खत्वेतत् । जानामि संयोगेन स्पर्शनेन्द्रियानुभवेन गृहस्य संवृतं पक्षद्वारकम् ॥ दारिद्र्यादित्यादि । बान्धवजनो वाक्ये न संतिष्ठते । वचनं न करोतीत्यर्थः । प्रतापाभावात् । स्फारीभवन्त्येकीभवन्ति । तत्तस्य संभाव्यते । चौर्यादि - कमिदमस्य नासीदिदानीं कथमित्यादि ॥ ३६ ॥ सङ्गमित्यादि । अल्पच्छदो वस्त्रविहीनः ॥ ३७ ॥ दारिद्र्येति । भवन्तमेवं शोचामि । विनष्टदेहे मयि क्व यास्यसि । अस्मत्सदृक्सार्वदिकः सुहृत्कोऽपि नास्तीत्यर्थः । अर्थपरत्वात्पुंलिङ्गत्वम् । यद्वा 'तमेवं भवमुत्पत्तिं स्मरामि' इति कुव्याख्या । सुहन्मित्रम् | अतो हेतोः मयि विनष्टदेहे व यास्यसि त्वमिति मे चारुदत्तस्य चिन्ता ॥ ३८ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy