________________
२८
मृच्छकटिके
विट:-काणेलीमातः, अस्ति किंचिच्चिद्रं यदुपलक्षयसि । शकारः-भावे भावे, किं विअ । (क) विटः-भूषणशब्दं सौरभ्यानुविद्धं माल्यगन्धं वा ।
शकारः-शुणामि मल्लगन्धम् , अन्धआलपूलिदाए उण णाशिआए ण शुव्वत्तं पेक्खामि भूशणशद्दम् । (ख) विट:-(जनान्तिकम् ।) वसन्तसेने, कामं प्रदोषतिमिरेण न दृश्यसे त्वं
सौदामनीव जलदोदरसंधिलीना। . त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं
गन्धश्च भीरु मुखराणि च नूपुराणि ॥ ३५ ॥ श्रुतं वसन्तसेने।
वसन्तसेना-(खगतम् ।) सुदं गहिद अ । (नाट्येन नूपुराण्युत्सार्य माल्यानि चापनीय किंचित्परिक्रम्य हस्तेन परामृश्य ।) अम्मो, भित्तिपरामरिससूइदं पक्खदुआर क्खु एदम् । जाणामि अ संजोएण गेहस्स संवुदं पक्खदुआरअम् । (ग)
चारुदत्तः-वयस्य, समाप्तजपोऽस्मि । तत्सांप्रतं गच्छ । मातृभ्यो बलिमुपहर ।
(क) भाव भाव, किमिव । (ख) शृणोमि माल्यगन्धम् , अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम् ।
(ग) श्रुतं गृहीतं च । अहो, भित्तिपरामर्शचितं पक्षद्वारकं खल्वेतत् । जानामि च संयोगेन गेहस्य संवृतं पक्षद्वारकम् । माल्यगन्धादि । 'अस्ति किंचिचिह्नमुपलक्षयसि' इति पाठान्तरार्थो व्यक्त एव ॥ किं विअ । कीदृशमिवेत्यर्थः ॥ शृणोमि माल्यगन्धम्, अन्धकारपूरितया पुनर्नासिकया न सुव्यकं पश्यामि भूषणशब्दम् । 'शुणामि मल्लगन्धम्' इत्यादिना लोकविरुद्धोक्तिः ॥ काममित्यादि ॥ ३५ ॥ श्रुतमवधारितम् । गृहीतमस्य तात्पर्यमप्याकलितम् । अये मातः, भित्तिपरामर्शसूचितं पक्षद्वार