________________
प्रथमोऽङ्कः ।
२७
रत्नेन संगच्छते' इति । तद्गच्छतु । किमनेन मूर्खेण । ( प्रकाशम् १) काणेलीमातः, वामतस्तस्य सार्थवाहस्य गृहम् ।
शकार :- -अध इं । वामदो तश्श घलम् । (क) वसन्तसेना – (खगतम् ।) अम्महे । वामदो तश्श गेहं त्ति जं शच्चम्, अवरज्झन्तेण वि दुज्जणेण उवकिदम्, जेण पिअशङ्गमं पाविदम् । (ख)
शकार: - भावे भावे, बलिए क्खु अन्धआले माशलाशिपविट्टा विअ मनिगुडिआ दीशन्दी जेव पणट्टा वशन्तशेणिआ । (ग) विटः– अहो, बलवानन्धकारः । तथाहि ।
आलोकविशाला मे सहसा तिमिरप्रवेशविच्छिन्ना । उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण ॥ ३३ ॥
अपि च ।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥ ३४ ॥
शकारः – भावे भावे, अण्णेशामि वशन्तशेणिअम् । (घ)
(क) अथ किम् । वामतस्तस्य गृहम् ।
(ख) आश्चर्यम्। वामतस्तस्य गृहमिति यत्सत्यम्, अपराध्यतापि दुर्जनेनोपकृतम्, येन प्रियसंगमः प्रापितः ।
(ग) भाव भाव, बलीयसि खल्वन्धकारे माषराशिनविष्टेव मसीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना ।
(घ) भाव भाव, अन्विष्यामि वसन्तसेनिकाम् ।
1
तस्य चारुदत्तस्य गृहम् । ततो यथा तव मम च हस्तान्नैषां प्रभ्रश्यति तथा करोतु भावः ॥ परिहर्तव्यम् । चारुदत्तवासोऽतिनिकट इति वसन्तसेनायाः कथयितुं नाईतीति तदेव च तेनोक्तम् । तद्वचनं परिहारविषयः । काणेलीमातः । 'काली कन्यका माता' इति देशीप्रकाशः । 'असती काणेली' इत्येके ॥ भाव, बलीयानन्धकारः । माषराशिप्रविष्टेव मसीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना ॥ मालोकेति । आलोके दर्शने । विशाला महती ॥ ३३ ॥ लिम्पतीत्यादि ॥ ३४ ॥ भाव, अन्विष्यामि वसन्तसेनाम् ॥ चिह्नं भूषणशब्दादि । उपलक्षणं