________________
२६
मृच्छकटिके तरुणजनसहायश्चिन्यतां वेशवासो
विगणय गणिका त्वं मार्गजाता लतेव । वहसि हि धनहार्य पण्यभूतं शरीरं
सममुपचर भद्रे सुप्रियं चाप्रियं च ॥ ३१ ॥ अपि च । वाप्यां स्वाति विचक्षणो द्विजवरो मूल्ऽपि वर्णाधमः
फुल्लां नाम्यति वायसोऽपि हि लतां या नामिता बर्हिणा । ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तयैवेतरे .
त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्व भज ॥ ३२ ॥ वसन्तसेना-गुणो क्खु अणुराअस्स कारणम् , ण उण बलकारो । (क)
शकारः-भावे भावे, एशा गब्भदाशी कामदेवाअदणुज्जा- . णादो पहुदि ताह दलिद्दचालुदत्ताह अणुलत्ता ण मं कामेदि । वामदो तश्श घलम् । जधा तव मम अ हत्थादो ण एशा पलिब्भंशदि तथा कलेदु भावे । (ख)
विट:-(खगतम् ।) यदेव परिहर्तव्यं तदेवोदाहरति मूर्खः । कथं वसन्तसेनार्यचारुदत्तमनुरक्ता । सुष्टु खल्विदमुच्यते-रत्नं ..(क) गुणः खल्लनुरागस्य कारणम्, न पुनर्बलात्कारः ।
(ख) भाव भाव, एषा गर्भदासी कामदेवायतनोद्यानात्प्रभृति तस्य दरिद्रचारुदत्तस्यानुरक्ता न मां कामयते । वामतस्तस्य गृहम् । यथा तव मम च हस्तान्नैषा परिभ्रश्यति तथा करोतु भावः । तरुणेत्यादि । धेशो वेश्याजनवासस्थानम् ॥ ३१ ॥ वाप्यामित्यादि । नाम्यति नमयति । नाम्यतीति कण्वादिपाठात् 'नामं करोति' इत्यर्थे यक्यकारलोपे च रूपम् । यथा मगधशब्दे मागध्यतीति भवति । 'नामं करोतीत्यर्थे णिचि संज्ञापूवको विधिरनित्य इति गुणमकृत्वा यणादेशे नाम्यतीति रूपम्' इत्येके । ‘ण्यन्तात्संपदादिपाठमभ्युपेत्य क्विपि क्यचि रूपम्' इत्यपरे ॥ ३२ ॥ गुणः खल्वनुरागस्य कारणम्, न पुनर्बलात्कारः॥गर्भदासी जन्मप्रभृतिचेटी।ताह तस्य । वामतः पार्वे