________________
प्रथमोऽङ्कः।
२५ शकारः-हगे वरपुलिशमणुश्शे वाशुदेवके कामइदव्वे। (क) वसन्तसेना-(सक्रोधम् ।) शन्तं शन्तम् । अवेहि । अणजं मन्तेशि । (ख)
शकार:-(सतालिकं विहस्य ।) भावे भावे, पेक्ख दाव । मं अन्तलेण शुशिणिद्धा एशा गणिआदालिआ णम् । जेण मं भणादि'एहि । शन्तेशि । किलिन्तेशि' त्ति । हगे ण गामन्तलं ण णगलन्तलं वा गडे । अजुके, शवामि भावश्श शीशं अत्तणकेहिं पादेहिं । तव जेव पश्चाणुपश्चिआए आहिण्डन्ते शन्ते किलिन्ते म्हि शंवुत्ते । (ग)
विटः-(खगतम् ।) अये, कथं शान्तमित्यभिहिते श्रान्त इत्यवगच्छति मूर्खः । (प्रकाशम् ।) वसन्तसेने, वेशवासविरुद्धमभिहितं भवत्या । पश्य ।
(क) अहं वरपुरुषमनुष्यो वासुदेवः कामयितव्यः । (ख) शान्तं शान्तम् । अपेहि । अनार्य मन्त्रयसि ।
(ग) भाव भाव, प्रेक्षस्व तावत् । मामन्तरेण सुस्निग्धैषा गणिकादारिका ननु । येन मां भणति-'एहि । श्रान्तोऽसि । क्लान्तोऽसि' इति । अहं न ग्रामान्तरं न नगरान्तरं वा गतः । भट्टालिके, शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम् । तवैव पृष्ठानुपृष्ठिकयाहिण्डमानः श्रान्तः क्लान्तोऽस्मि संवृत्तः।
नुष्यो वासुदेवः कामयितव्य इति तय॑त इत्याशयः ॥ सन्तं शान्तम् । अनार्यमनहम् ॥ सतालिकम् । विटस्य हस्ते तालदानं कृत्वेत्यर्थः । भाव, प्रेक्षख तावत् । मं अन्तरेण । 'मयीत्यर्थः' इत्येके । अन्तरेण चित्तेन अन्योन्यं सुस्निग्धैषा गणिकादारिका ननु । येन मां भणति-'एहि । श्रान्तोऽसि । क्लान्तोऽसि ।' हगे अहं न प्रामान्तरगतो न नगरान्तरागतः । ग्रामान्तरागतो नगरान्तरगतश्च श्रान्तः क्लान्तश्च भवति । न त्वहमीदृश इत्याशयः । अज्जुके भट्टालिके । भावस्य विटस्य । शीर्षणात्मीयाभ्यां पादाभ्यां शपे । यदने वक्ष्यमाणं तत्सत्यमित्यर्थः । तवैव पृष्ठानुपृष्ठिकया । आहिण्डन्ते उभाम्यन् । श्रान्तः क्लान्तोऽस्मि संवृत्तः ॥
मृ०३