________________
२०.
मृच्छकटिके
एशा वेशवहू शुवेशणिलआ वेशङ्गणा वेशिआ
एशे शे दश णामके मइ कले अज्जावि में णेच्छदि॥२३॥(क) विट:
प्रसरसि भयविक्लवा किमर्थ . प्रचलितकुण्डलघृष्टगण्डपार्था । विटजननखघट्टितेव वीणा
जलधरगर्जितभीतसारसीव ॥ २४ ॥ शकार:झाणज्झणन्तबहुभूशणशद्दमिश्शं .
किं दोवदी विअ पलाअशि लामभीदा । (क) भाव भाव, एषा नाणकमोषिकामकशिका मत्स्याशिका लासिका.
निर्नासा कुलनाशिका अवशिका कामस्य मञ्जूषिका । एषा वेशवधूः सुवेशनिलया वेशाङ्गना वेशिका
एतान्यस्या दश नामकानि मया कृतान्यद्यापि मां नेच्छति ॥ चर्मसडिकोच्यते । मच्छाशिका मत्स्यभक्षिका । 'मच्छं शुष्कमांसम्' इत्येके । लाशिका नर्तकी । णिण्णाशा निम्ननासा । कुलणाशिका कुलं वंशस्तन्नाशयति पातित्यजननात् । 'णीशाशा' इति पाठे निःखानामाशा (2)। कुलनाशिकेत्यर्थः । अवशिकानायत्ता । दानेनापि कस्याप्यायत्ता न भवति । कामस्य मषिका पात्रविशेषः । कन्दर्पभाजनमिव । वर्तुलीभूतः काम इवेत्यर्थः । एषा वेशवधूः । 'वेशो वेश्याजनाश्रयः' इत्यमरः । सुवेशनिलया शोभनानां वेशानामलंकाराणां निलय आश्रयो यस्यां सा । वेशाङ्गना । वेशिका । वेशोऽस्यास्तीति वेशिका । एतान्यस्या दश नामकानि मया कृतानि । अद्यापि मां नेच्छति । यदि देवताया अष्टौ दश द्वादश नामानि पठ्यन्ते तदा सा प्रसन्ना भवति । इयं त्वेतावतापि न प्रसनेति भावः । अत्र पूर्वार्धोत्तरार्धयोः एषैषेति पुनरुक्तम् , न्यूनमधिकं वा कृतम् । दशेति व्यर्थम् ॥ २३ ॥ प्रसरसीत्यादि । प्रचलिताभ्यां कुण्डलाभ्यां गण्डयोघृष्टं पार्श्व यस्याः सा । अत एव विटनखपरिमृष्टवीणातुल्या । मनोहरत्वाच्छब्दवत्त्वाद्वा वीणातुल्यत्वम् । विटसदृशौ कुण्डलौ ॥ २४ ॥ झाणज्झणन्तेति । वसन्ततिलकं छन्दः । झाणज्झणन्तेत्यव्यक्तानुकरणम् । अव्यक्तशब्दविशेषयुक्तबहुभूषणशब्देन मिश्रं यथा स्यादेवम् । किं द्रौपदीव पलायसे राम