________________
प्रथमोऽङ्कः। शकारः-चिट्ठ वशन्तशेणिए, चिट्ठ। मम मअणमणङ्गं वड्डअन्ती
णिशि अ शअणके मे णिद्दों आक्खिवन्ती । पशलशि भअभीदा पक्खलन्ती खलन्ती
मम वशमणुजादा लावणश्शेव कुन्ती ॥ २१ ॥ (क) विट:-वसन्तसेने,
किं त्वं पदैर्मम पदानि विशेषयन्ती ___ व्यालीव यासि पतगेन्द्रभयाभिभूता । वेगादहं प्रविसृतः पवनं न रुन्ध्यां
. त्वन्निग्रहे तु वरगात्रि न मे प्रयत्नः ॥ २२ ॥ शकारः-भावे भावे, एशा णाणकमूशिकामकशिका मच्छाशिका लाशिका णिण्णाशा कुलणाशिका अवशिका कामस्स मञ्जूशिका । (क) तिष्ठ वसन्तसेने, तिष्ठ । मम मदनमनङ्गं मन्मथं वर्धयन्ती
निशि च शयनके मम निद्रामाक्षिपन्ती । प्रसरसि भयभीता प्रस्खलन्ती स्खलन्ती।
मम वशमनुयाता रावणस्येव कुन्ती ॥ 'मनःशिला तु कुनदी' इत्यमरः ॥२०॥ मम मअणेत्यादि । मालिनीच्छन्दसा श्लोकः । मम मदनमनङ्गं मन्मथं वर्धयन्ती निशि च शयनके मम निद्रामाक्षिपन्ती । प्रसरसि प्रगच्छसि । 'प्रस्वरसि दात्यूहव द्विरौषि' इति केचित् । भयभीता प्रस्खलन्ती स्खलन्ती मम वशमनुयाता रावणस्येव कुन्ती । भयभीतेति । भयशब्दोऽयमपार्थकः । मदनमनङ्गमित्यादि पुनरुक्तम् । रावणस्येव कुन्तीति हतोपमम् । तथा चोक्तम्-'आगमलिङ्गविहीनं देशकलान्यायविपरीतम् । व्यर्थैकार्थमपार्थ भवति हि वचनं शकारस्य ॥' इति ॥ २१॥ विशेषयन्ती अतिशयाना । व्याली सी । प्रविसृतः प्रचलितः । वातं न निरुणध्मि । अपि तु रुणभ्येव । नकारः काकौ ॥ २२ ॥ 'भावो विद्वान्' इत्यमरः ॥ एशा णाणकेत्यादि । शार्दूलविक्रीडितच्छन्दसा श्लोकः । एषा । नाणं शिवाकं टङ्ककादिवित्तं तस्य मोषणशील: कामो यस्य तस्य कशिका चर्मकाष्टिका । चौराणां किंचित्तया चोपकरण भवति । तदत्र कशोक्ता। कशा चाश्वताडनी ।