________________
प्रथमोऽङ्कः ।
(प्रविश्य प्रावारहस्तः) 4.
मैत्रेयः —— ('अण्णं बम्हणं' इति पूर्वोक्तं पठित्वा ।) अधवा, मए विमि - एण परस्स आमन्तणआई पच्छिदव्वाई । हा अवत्थे, तुलीअसि । जो णाम अहं तत्तभवदो चारुदत्तस्स रिद्धीए अहोरत्तं पअतणसिद्धेहिं उग्गारसुरहिगन्धेहिं मोदकेहिं ज्जेव असिदो अब्भन्तरचदुस्सालअदुआए उवविट्टो मल्लकसदपरिबुदो चित्तअरो विअ अङ्गुलीहिं छिवि छिवि अवणेमि । णअरचत्तरवुसहो विअ रोमन्थाअमाणो चिट्ठामि । सो दाणिं अहं तस्स दलिद्ददाए जहिं तहिं चरिअ गेहपारावदो विअ आवासणिमित्तं इध आअच्छामि । एसो अ अज्जचारुदत्तस्स पिअवअस्सेण जुण्णवुडेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धी किद देवकज्जस्स अज्जचारुदत्तस्स
११.
स इदानीं प्रत्यादिष्टोऽसि । को दाणिं क इदानीम् । दे णिब्बन्धो ते निर्बन्धः । मं माम् । पदे पदे अणुबन्धेदुं अनुरोद्धुम् ॥ पञ्चादिट्टोम्हि प्रत्यादिष्टोऽस्मि । एदिणा अनेन । भोदु भवतु । अण्णं अन्यम् । बम्हणं ब्राह्मणम् । उवणिमन्तेि उपनिमन्त्रयिष्ये ॥ प्रस्तावने त्यामुखसंधिपर्यायः । यदुक्तम् — सूत्रधारेण सहिताः संलापं यत्र कुर्वते । नटी विदूषको वापि पारिपार्श्वक एव वा ॥ आमुखं नाम तस्यैव सैव प्रस्तावना मता ॥' प्रावारः प्रच्छदपटः । अथवा मयापि मैत्रेयेन (ण) परस्य । आमन्तणआई आमन्त्रणकानि । पच्छिदव्वाई समीहितव्यानि । यो नामाहं तत्रभवतश्चारुदत्तस्य समृद्धयाहोरात्रं प्रयत्न सिद्धैरुद्वारसुरभिगन्धिभिर्मोदकैरेवाशितस्तृप्तः । मल्लकशतपरिवृतः । मल्लकः पात्रविशेषः पत्रपुटो वा । 'दोना' इति प्रसिद्ध विदूषकपक्षे । चित्रकरपक्षे वर्णिकापात्रं मल्लकः । अभ्यन्तरचतुःशालकद्वारे उपविष्टः । चित्रकर इव छिविअ छिविअ स्पृष्ट्री स्पृष्ट्वाङ्गुल्यग्रैरपनंयामि न भक्षयामि । अत्यन्तं तृप्तत्वादित्यर्थः । चित्रकरोऽप्यङ्गुलीसंस्थितलेखनिकया वर्णिकाभाण्डं स्पृष्ट्वा स्पृष्ट्वापनयति विक्षिपति । अन्यथा वर्णिकाबिन्दुपातः स्यादिति । नवबद्धवृषभ इव रोमन्थायमानस्तिष्ठामि । 'आपणे नगरचत्ववृषभ इव' इति पाठान्तरेऽपि व्याख्या । दाणिं इदानीम् । दलिद्ददाए दरिद्रतया । यत्र कुत्रापि चरित्वा गृहपारावत इवावासनिमित्तं शयनार्थमत्रागच्छामि । एसो एषः । जूर्णवृद्धेन जातीकुसुमवासितोऽनुप्रेषितः प्रावारकः । सिद्धीकिददेवकजस्स नि