________________
१२
मृच्छकटिके उवणेदव्वो त्ति । ता जाव अजचारुदत्तं पेक्खामि । (परिक्रम्यावलोक्य च ।) एसो चारुदत्तो सिद्धीकिददेवकज्जो गिहदेवदाणं बलिं हरेन्तो इदो जेव आअच्छदि । (क)
(ततः प्रविशति यथानिर्दिष्टश्चारुदत्तो रदनिका च ।) चारुदत्तः-(ऊर्ध्वमवलोक्य सनिर्वेदं निःश्वस्य ।)
यासां बलिः सपदि मद्गृहदेहलीनां ___ हंसैश्च सारसगणैश्च विलुप्तपूर्वः । तास्वेव संप्रति विरूढतृणाङ्कुरासु .
__बीजाञ्जलिः पतति कीटमुखावलीढः ॥ ९ ॥ (इति मन्दं मन्दं परिक्रम्योपविशति ।)
विदूषकः-एसो अजचारुदत्तो। ता जाव संपद उवसप्पामि । (उपसृत्य ।) सोत्थि भवदे । वडुदु भवम् । (ख)
(क) अथवा मयापि मैत्रेयेण परस्यामन्त्रणकानि समीहितव्यानि । हा अवस्थे, तूलयसि । यो नामाहं तत्रभवतश्चारुदत्तस्य ऋद्धयाहोरात्रं प्रयनसिद्धैरुद्गारसुरभिगन्धिभिर्मोदकैरेवाशितोऽभ्यन्तरचतुःशालकद्वार उपविष्टो मल्लकशतपरिवृतश्चित्रकर इवाङ्गुलीभिः स्पृष्ट्वा स्पृष्ट्वापनयामि । नगरचत्वरवृषभ इव रोमन्थायमानस्तिष्ठामि । स इदानीमहं तस्य दरिद्रतया यत्र तत्र चरित्वा गृहपारावत इवावासनिमित्तमत्रागच्छामि । एष चार्यचारुदत्तस्य प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्योपनेतव्य इति । तद्यावदार्यचारुदत्तं पश्यामि । एष चारुदत्तः सिद्धीकृतदेवकार्यो गृहदेवतानां बलिं हरन्नित एवागच्छति । __ (ख) एष आर्यचारुदत्तः। तद्यावत्सांप्रतमुपसर्पामि । स्वस्ति भवते । वधतां भवान् । पादितदेवकार्यस्य । पाठान्तरे तु-षष्ठीव्रतकृतदेवकार्यस्येत्यर्थः । आर्यचारुदत्तस्योपनेतव्यः । तद्यावत्पश्यामि । गृहदेवतानां बलिं हरनित एवाभिगच्छति ।बलिं पूजाम् ॥ यासामिति । कीटमुखाखादितो बीजाञ्जलिः पतति । विरूढा उपचितास्तृणाङ्कुरा यासु ॥ ९॥ खस्ति भवते । वर्धतां भवान् ॥ किमिदं चि