________________
ငှ
मृच्छकटिके
नटी - ( प्रविश्य 1) अज्ज, इअम्हि । (क)
सूत्रधारः - अज्जे, साअदं दे । (ख) नटी - आणवेदु अज्जो को णिओओ अणुचिट्ठीअदु त्ति । (ग) सूत्रधारः - अज्जे, (चिरसंगीदोवासणेण' इत्यादि पठित्वा ।) अत्थि किं पि अम्हाणं गेहे असिदव्वं ण वेत्ति । (घ)
नटी - अज्ज, सव्वं अस्थि । (च)
सूत्रधारः - किं किं अत्थि । (छ)
नटी - तं जधा - गुडोदणं विअं दहीं तण्डुलाई अज्ञेण अत्तव्वं रसाअणं सव्वं अस्थि त्ति । एव्वं दे देवा आसासेदु । (ज) सूत्रधारः— किं अम्हाणं गेहे सव्वं अत्थि । आदु परिहससि । (झ)
युवत्यधिकतरं शोभते भूमिः । स्निग्धगन्धेनोद्दीप्यमानेवाधिकं बाधते मां बुभुक्षा । तत्किं पूर्वार्जितं निधानमुत्पन्नं भवेत् । अथवाहमेव बुभुक्षातोऽन्नमयं जीवलोकं पश्यामि । नास्ति किल प्रातराशोऽस्माकं गृहे । प्राणाधिकं बाधते मां बुभुक्षा । इह सर्वे नवं संविधानकं वर्तते । एका वर्णकं पिनष्टि, अपरा सुमनसो ग्रनाति । किं न्विदम् । भवतु । कुटुम्बिनीं शब्दाय्य परमार्थ ज्ञास्यामि । आर्ये, इतस्तावत् ।
(क) आर्य, इयमस्मि ।
(ख) आर्ये, स्वागतं ते ।
(ग) आज्ञापयत्कर्यः को नियोगोऽनुष्ठीयतामिति ।
(घ) आर्ये, अस्ति किमप्यस्माकं गेहेऽशितव्यं न वेति । (च) आर्य, सर्वमस्ति ।
(छ) किं किमस्ति
(ज) तद्यथा---गुडौदनं घृतं दधि तण्डुलाः आर्येणात्तव्यं रसायनं सर्वमस्तीति । एवं तव देवा आशासन्ताम् ।
(झ) किमस्माकं गेहे सर्वमस्ति । अथवा परिहससि ।
सूचनम् ॥ असिदव्वं अन्नरूपं द्रव्यम् ॥ घिअं घृतम् । अत्तव्वं रसाअणमिति प्रायेपात्तव्यं रसायनमस्तीति । एवं तव देवा आशासन्तामिति संदिग्धवाक्योपन्यासः ॥