________________
प्रथमोऽङ्कः ।
नटी-(खगतम् ।) परिहसिस्सं दाव । (प्रकाशम् ।) अन्ज, अत्थि आवणे । (क)
सूत्रधारः-(सक्रोधम् ।) आः अणजे, एव्वं दे आसा छिजिस्सदि । अभावं अ गमिस्ससि । जं दाणिं अहं वरण्डलम्बुओ विअ दूरं उक्खिविअ पाडिदो । (ख)
नटी-मरिसेदु मरिसेदु अजो। परिहासो क्खु एसो। (ग)
सूत्रधारः–ता किं उण इदं णवं विअ संविहाणअं वदि । एका वण्ण पीसेदि, अवरा सुमणाओ गुम्फेदि, इअं अ पञ्चबण्णकुसुमोवहारसोहिदा भूमी । (घ)
नटी-अन्ज उववासो गहिदो । (ङ) सूत्रधारः-किं णामधेओ अअं उववासो । (च) नटी-अहिरूअवदी णाम । (छ) (क) परिहसिष्यामि तावत् । आर्य, अत्यापणे ।
(ख) आः अनार्ये, एवं तवाशा छेत्स्यति । अभावं च गमिष्यसि । यदिदानीमहं वरण्डलम्बुक इव दूरमुत्क्षिप्य पातितः।
(ग) मर्षतु मर्षत्वार्यः । परिहासः खल्वेषः । (घ) तत्कि पुनरिदं नवमिव संविधानकं वर्तते । एका वर्णकं पिनष्टि, अपरा सुमनसो गुम्फति, इयं च पञ्चवर्णकुसुमोपहारशोभिता भूमिः ।
(ङ) अद्योपवासो गृहीतः। (च) किं नामधेयोऽयमुपवासः । (छ) अभिरूपपति म । आर्य, अस्त्यापणे वणिग्वीथ्याम् ॥ एवं तवाशा छेत्स्यति । अभावं च गमिष्यसीत्यनेन वसन्तसेनायाः प्रवहणविपर्यासमोटनयोः सूचनम् ॥ वरण्डले दीर्घकाष्ठं तस्य लम्बुकस्तत्प्रान्तनिबद्धो मृत्तिकास्थूणः । स हि द्रोण्यां पानीयोद्धारे दूरमुत्थाप्याधः पात्यते । केचिदाहुः-वरे(र)ण्ड इष्टकागृह उन्नतीभूतो दी? भिलिप्रदेशस्तत्र लम्बुकोऽवयवभूत इष्टकासंघः । सोऽपि हि संयोजनार्थ दूरमुत्थाप्यते । अनन्तरं निपतत्यंपीति ॥ मर्षतु मर्षत्वार्यः । परिहासः खल्वेषः ॥ उपवासः । उपवासरूपं व्रतमित्यर्थः । अधिकरणघनन्तोऽयम् ॥ अहिरूअवदी णाम अभिरूपपतिर्नाम ॥