________________
प्रथमोऽङ्कः। गेहं गदुअ आणामि, अत्थि किंपि कुटुम्बिणीए उववादिदं ण वेत्ति । (परिक्रम्यावलोक्य च ।) एदं तं अम्हाणं गेहम् । ता पविसामि । (प्रविश्यावलोक्य च ।) हीमाणहे । किं णु क्खु अम्हाणं गेहे अण्णं विअ संविहाण वट्टदि । आआमितण्डुलोदअप्पवाहा रच्छा लोहकडाहपरिवत्तणकसणसारा किदविसेसआ विअ जुअदी अहिअदरं सोहदि भूमी । सिणिद्धगन्धेण उद्दीविअन्ती विअ अहिलं बाधेदि मं बुभुक्खा । ता किं पुव्वजिदं णिहाणं उवणं भवे । आदु अहं जेव बुभुक्खादो अण्णमअं जीअलोअं पेक्खामि । णत्थि किल पादरासो अम्हाणं गेहे । पाणाधिअं बाधेदि मं बुभुक्खा। इध सव्वं णवं संविहाणूअं वदृदि । एक्का वण्णअं पीसेदि, अवरा सुमणाई गुम्फेदि । (विचिन्त्य ।) किं णेदम् । भोदु। कुडुम्बिणि सदाविअ परमत्थं जाणिस्सम् । (नेपथ्याभिमुखमवलोक्य ।) अजे, इदो दाव । (क)
(क) अविद अविद भोः, चिरसंगीतोपासनेन शुष्कपुष्करनालानीव मे बुभुक्षया म्लानान्यङ्गानि । तद्यावद्गृहं गत्वा जानामि, अस्ति किमपि कुटुम्बिन्या उपपादितं न वेति । इदं तदस्माकं गृहम् । तत्प्रविशामि । आश्चर्यम् । किं नु खल्वस्माकं गृहेऽन्यदिव संविधानकं वर्तते । आयामितण्डुलोदकप्रवाहा रथ्या लोहकटाहपरिवर्तनकृष्णसारा कृतविशेषकेव
निर्वेदे । कष्टं कष्टमित्यर्थः । 'अदृष्टाश्रुतसंप्राप्तावविदाविदभो पदम्' इति च प्राञ्चः। मिलाणाइं म्लानानि । हीमाणहे विस्मये । किं नु खल्वस्माकं गृहेऽन्यदिव संविधानकं वर्तते । आयामी दीर्घस्तण्डुलप्रक्षालनजलप्रवाहो यत्र तादृशी रथ्या । लोहस्य कटाहो भाजनविशेषस्तत्परिवर्तनेन मार्जनेन कृष्णसारा कृततिलका युवतिवद्भूमिरधिकं शोभते । कृष्णसारा भूमिरित्यनेन चतुर्थाके भवनकोष्ठकस्य विशेषसूचनम् । सिणिद्धगन्धेण स्निग्धगन्धेन । उद्दीविअन्ती विज उद्दीप्यमानेव । तत्किं पूर्वार्जितं निधानं बहुसंख्यं धनमुत्पन्नं भवेत् । आदु अथवेत्यर्थः । अहमेव बुभुक्षातोऽन्नमयम् । पाठान्तरे ओदनमयम् । जीवलोकं संसारं, पैश्यामि । नास्ति किल प्रातराशोऽस्माकं गृहे । प्राणाधिकं प्राणेष्वधिकं यथा स्यादेवम् । मं माम् । बुभुक्षा बाधते । इह सर्वं नवं संविधानकं वर्तते । एका वर्णकं कस्तूर्यादिकं समालम्भनं पिनष्टि।अपरा सुमनसः पुष्पाणि अनाति । इत्यनेनापि कोष्ठकस्यैव