________________
दशमोऽङ्कः ।
२९१
धूता - - ( विलोक्य ।) अम्महे । अज्जउत्तस्स ज्जेव सरसंजोओ । (पुनर्निपुणं निरूप्य सहर्षम् ।) दिट्टिआ अज्जउत्तो ज्जेव एसो । पिअं मे पिअम् । (क)
बालकः—(विलोक्य सहर्षम् ) अम्मो । आवुको मं परिस्सदि । (धूतां प्रति ।) अज्जए, वड्डूवीअसि । आवुको ज्जेव मं पज्जवट्ठावेदि । (ख) (इति प्रत्यालिङ्गति )
चारुदत्तः - (धूतां प्रति ।)
हा प्रेयसि प्रेयसि विद्यमाने
कोऽयं कठोरो व्यवसाय आसीत् । अम्भोजिनी लोचनमुद्रणं किं
भानावनस्तं गमिते करोति ॥ ५७ ॥
धूता - अज्जउत्त, अदो ज्जेव सा अदि । (ग)
अचेतणेत्ति चुम्बी
विदूषकः - ( दृष्ट्वा सहर्षम् ) ही ही भो, एदेहिं ज्जेव अच्छीहिं पिअवअस्सो पेक्खीअदि । अहो सदीए पहावो, जदो जलणप्पवेशव्ववसाएण ज्जेव पिअसमागमं पाविदा । (चारुदत्तं प्रति ।) जेदु जेदु पिअवअस्सो । (घ)
चारुदत्तः - एहि मैत्रेय । (इत्यालिङ्गति ।)
--
(क) आश्चर्यम् । आर्यपुत्रस्यैव स्वरसंयोगः । दिष्टचार्यपुत्र एवैषः । प्रियं मे प्रियम् ।
(ख) आश्चर्यम् । पिता मां परिष्वजति । आर्ये, वर्धसे । तात एव मां पर्यवस्थापयति ।
(ग) आर्यपुत्र, अतएव साऽचेतनेति चुम्ब्यते ।
(घ) आश्चर्य भोः, एताभ्यामेवाक्षिभ्यां प्रियवयस्यः प्रेक्ष्यते । अहो सत्याः प्रभावः, यतो ज्वलनप्रवेशव्यवसायेनैव प्रियसमागमं प्रापिता । जयतु जयतु प्रियवयस्यः ।
पनमाचार इति कृत्वा स्वयमेव क्षमोऽहमिति भावः ॥ हा प्रेयसीति ॥ ५७ ॥