________________
२९२
मृच्छकटिके
चेटी-अहो संविधाणअम् । अन्ज, वन्दामि । (क) (इति चारुदत्तस्य पादयोः पतति ।)
चारुदत्तः—(पृष्ठे करं दत्त्वा ।) रदनिके, उत्तिष्ठ । (इत्युस्थापयति ।)
धृता- (वसन्तसेनां दृष्ट्वा ।) दिट्ठिआ कुसलिणी बहिणिआ । (ख) वसन्तसेना-अहुणा कुसलिणी संवुत्तम्हि । (ग)
(इत्यन्योन्यमालिङ्गतः।) शर्विलकः-दिष्टया जीवितसुहृद्वर्ग आर्यः । चारुदत्तः-युष्मत्प्रसादेन ।
शर्विलकः-आर्ये वसन्तसेने, परितुष्टो राजा भवतीं वधूशब्देनानुगृह्णाति ।
वसन्तसेना-अन्ज, कदत्थम्हि । (घ)
शर्विलकः-(वसन्तसेनामवगुण्ठ्य चारुदत्तं प्रति ।) आर्य, किमस्य भिक्षोः क्रियताम् ।
चारुदत्तः-भिक्षो, किं तव बहुमतम् । भिक्षुः-इमं ईदिशं अणिञ्चत्तणं पेक्खिअ दिउणतले मे पव्वजाए बहुमाणे संवुत्ते । (ङ)
चारुदत्तः-सखे, दृढोऽस्य निश्चयः । तत्पृथिव्यां सर्वविहारेषु कुलपतिरयं क्रियताम् ।
(क) अहो संविधानकम् । आर्य, वन्दे । (ख) दिष्टया कुशलिनी भगिनी । (ग) अधुना कुशलिनी संवृत्तास्मि । (घ) आर्य, कृतार्थास्मि । (ङ) इदमीदृशमनित्यत्वं प्रेक्ष्य द्विगुणतरो मम प्रव्रज्यायां बहुमानः संवृत्तः ।