________________
२८९
दशमोऽङ्कः। शर्विलक:-अहो प्रमादः। * त्वरया सर्पणं तत्र मोहमार्योऽत्र चागतः ।
हा धिक्प्रयत्नवैफल्यं दृश्यते सर्वतोमुखम् ॥ ५६ ॥ वसन्तसेना-समस्ससिदु अज्जो । तत्त गदुअ जीवावेदु अजाम् । अण्णधा अधीरत्तणेण अणत्यो संभावीअदि । (क) • चारुदत्तः—(समाश्वस्य सहसोत्थाय ।) हा प्रिये, क्वासि । देहि मे प्रतिवचनम् । चन्दनकः—इदो इदो अज्जो । (ख)
(इति सर्वे परिक्रामन्ति ।) (ततः प्रविशति यथानिर्दिष्टा धूता चेलाञ्चलमाकर्षन्विदूषकेणानुगम्यमानो रोहसेनो रदनिका च ।)
धृता-(सास्रम् ।) जाद, मुञ्चेहि मम् । मा विग्धं करेहि । भीआमि अजउत्तस्स अमङ्गलाकण्णणदो । (ग) (इत्युत्थायाञ्चलमाकृष्य पावकाभिमुखं परिकामति ।)
रोहसेनः-माद अजए, पडिवालेहि मम् । तुए विणा ण सक्कुणोमि जीविदं धारेदुम् । (घ) (इति चरितमुपसृत्य पुनरश्चलं गृह्णाति ।) .
विदूषकः-भोदीए दाव बम्हणीए भिण्णत्तणेण चिदाधिरोहणं पावं उदाहरन्ति रिसीओ । (ङ)
(क) समाश्वसित्वार्यः। तत्र गत्वा जीवयत्वार्याम् । अन्यथाधीरत्वेनानर्थः संभाव्यते ।
(ख) इत इत आर्यः । (ग) जात, मुश्च माम् । मा विघ्नं कुरुष्व । बिभेम्यार्यपुत्रस्यामङ्गला- . कर्णनात् ।
(घ) मातरार्ये, प्रतिपालय माम् । त्वया विना न शक्नोमि जीवितं धर्तुम् । (ङ) भवत्यास्तावद्राह्मण्या भिन्नत्वेन चिताधिरोहणं पापमुदाहरन्ति ऋषयः।
मृ. २५