________________
२८८
मृच्छकटिके __शकारः-हीमादिके । पञ्चुज्जीविदे म्हि । (क) (इति पुरुषैः सह निष्क्रान्तः।)
(नेपथ्ये कलकलः ।)
(पुनर्नेपथ्ये ।) एसा अजचालुदत्तस्स वहुआ अज्जा धूदा पदे वसणञ्चले विलग्गन्तं दारअं आक्खिवन्ती वाप्फभरिदणअणेहिं जणेहिं णिवारिजमाणा पज्जलिदे पावए पविसदि । (ख)
शर्विलकः-(आकर्ण्य नेपथ्याभिमुखमवलोक्य ।) कथं चन्दनकः । चन्दनक, किमेतत् ।
चन्दनकः-(प्रविश्य ।) किं ण पेक्खदि अज्जो। महाराअप्पासादं दक्खिणेण महन्तो जणसंमद्दो वट्टदि । ('एसा'(२८८ पृष्ठे)इत्यादि पुनः पठति ।) कधिदं अ मए तीए, जधा-'अजे, मा साहसं करेहि । जीवदि अजचारुदत्तो' त्ति । परंतु दुक्खवावुडदाए को सुणेदि, को पत्तिआएदि । (ग)
चारुदत्तः-(सोद्वेगम् ।) हा प्रिये, जीवत्यपि मयि किमेतद्वयवसितम् । (ऊर्ध्वमवलोक्य दीर्घ निश्वस्य च ।)
न महीतलस्थितिसहानि भव___ चरितानि चारुचरिते यदपि ।
उचितं तथापि परलोकसुखं
___न पतिव्रते तव विहाय पतिम् ॥ ५५ ॥ (इति मोहमुपगतः ।)
(क) आश्चर्यम् । प्रत्युज्जीवितोऽस्मि । (ख) एषार्यचारुदत्तस्य वधूरार्या धूता पदे वसनाञ्चले विलगन्तं दारकमाक्षिपन्ती बाष्पभरितनयनैर्जनैर्निवार्यमाणा प्रज्वलिते पावके प्रविशति ।
(ग) किं न पश्यत्यार्यः । महाराजप्रासादं दक्षिणेन महाञ्जनसंमर्दो वर्तते । कथितं च मया तस्यै, यथा-'आर्य, मा साहसं कुरुष्व । जीवत्यार्यचारुदत्तः' इति । परंतु दुःखव्यापृततया कः शृणोति, कः प्रत्ययते । आकर्षन्त्विति ॥ ५३ ॥ शत्रुरिति ॥ ५४ ॥ न महीति ॥ ५५ ॥