________________
दशमोऽङ्कः ।
(नेपथ्ये ।)
पौराः वावादेध । किंणिमित्तं पादकी जीवावीअदि । (क) (वसन्तसेना वध्यमालां चारुदत्तस्य कण्ठादपनीय शकारस्योपरि क्षिपति ।) शकारः - गन्मदाशीधीए, पशीद, पशीद । ण उण मालइइशम् । ता पलित्ताआहि । (ख)
शर्विलक:- अरे रे, अपनयत । आर्यचारुदत्त, आज्ञाप्यताम् - किमस्य पापस्यानुष्ठीयताम् ।
चारुदत्तः — किमहं यद्ब्रवीमि तत्क्रियते ।
शर्विलकः - कोऽत्र संदेहः ।
चारुदत्तः - सत्यम् । शर्विलकः– सत्यम् । चारुदत्तः - यद्येवं शीघ्रमयम् —
शर्विलकः - किं हन्यताम् ।
चारुदत्तः – नहि नहि । मुच्यताम् । शर्विलकः — किमर्थम् ।
चारुदत्तः
शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः । शस्त्रेण न हन्तव्यः
शर्विलकः -- एवम् । तर्हि श्वभिः खाद्यताम् । चारुदत्तः - नहि |
२८७
1: || 48 ||
उपकारहतस्तु कर्तव्यः शर्विलकः —– अहो, आश्चर्यम् । किं करोमि । वदत्वार्यः ।
1
चारुदत्तः — तन्मुच्यताम् ।
शर्विलकः - मुक्तो भवतु ।
(क) पौराः, व्यापादयत । किंनिमित्तं पातकी जीव्यते ।
(ख) गर्भदासीपुत्र, प्रसीद प्रसीद । न पुनर्मारयिष्यामि । तत्वरित्रायस्व |