________________
२८६
मृच्छकटिके शलणवच्छलं गच्छामि । (इत्युपसृत्य ।) अजचालुदत्त, पलित्ताआहि पलित्ताआहि । (क) (इति पादयोः पतति ।)
(नेपथ्ये।) अजचालुदत्त, मुञ्च मुञ्च । वावादेम्ह एदम् । (ख) शकारः-(चारुदत्तं प्रति ।) भो - अशलणशलणे, पलित्ताआहि । (ग)
चारुदत्तः—(सानुकम्पम् ।) अहह, अभयमभयं शरणागतस्य ।
शविलकः-(सावेगम् ।) आः, अपनीयतामयं चारुदत्तपाश्र्वात्। (च रुदत्तं प्रति ।) ननूच्यतां किमस्य पापस्यानुष्ठीयतामिति ।
आकर्षन्तु सुबद्धेनं श्वभिः संखाद्यतामथ ।
शूले वा तिष्ठतामेष पाट्यतां क्रकचेन वा ॥ ५३॥ चारुदत्तः–किमहं यद्वीमि तत्क्रियते । शर्विलकः-कोऽत्र संदेहः ।
शकारः-भश्टालआ चालुदत्त, शलणागदे म्हि । ता पलित्ताआहि पलित्ताआहि । जं तुए शलिशं तं कलेहि । पुणो ण इदिशं कलिश्शम् । (घ) (क) आश्चर्यम् ।
एवं दूरमतिक्रान्त उद्दाम इव गर्दभः ।
आनीतः खल्वहं बद्धः कुक्कुरोऽन्य इव दुष्करः ॥ समन्तत उपस्थित एष राष्ट्रियबन्धुः । तत्कमिदानीमशरणः शरणं व्रजामि । भवतु । तमेवाभ्युपपन्नशरणवत्सलं गच्छामि । आर्यचारुदत्त, परित्रायस्व परित्रायस्व । (ख) आर्यचारुदत्त, मुञ्च मुञ्च । व्यापादयामैतम् । (ग) भो अशरणशरण, परित्रायस्व । (घ) भट्टारक चारुदत्त, शरणागतोऽस्मि । तत्परित्रायस्व परित्रायस्व । यत्तव सदृशं तत्कुरु । पुनर्नेदृशं करिष्यामि ।