________________
चारुदत्तः– किम् । शर्विलक:
―
दशमोऽङ्कः ।
२८५
त्वद्यानं यः समारुह्य यतस्त्वां शरणं पुरा । पशुवद्वितते यज्ञे हतस्तेनाद्य पालकः ॥ ५१ ॥
चारुदत्तः - शर्विलक, योऽसौ पालकेन घोषादानीय निष्कारणं कूटागारे बद्ध आर्यकनामा त्वया मोचितः ।
शर्विलकः - यथाह तत्रभवान् ।
चारुदत्तः - प्रियं नः प्रियम् ।
शर्विलकः – प्रतिष्ठितमात्रेण तव सुहृदार्यकेणोज्जयिन्यां वेणा - तटे कुशावत्यां राज्यमतिसृष्टम् । तत्प्रतिमान्यतां प्रथमः सुहृत्प्रणयः । (परिवृत्य ।) अरे रे, आनीयतामयं पापो राष्ट्रियशठः । (नेपथ्ये ।)
यथाज्ञापयति शर्विलकः ।
शर्विलकः - आर्य, नन्वयमार्यको राजा विज्ञापयति - इदं मया युष्मद्गुणोपार्जितं राज्यम् । तदुपयुज्यताम् ।
चारुदत्तः - अस्मद्गुणोपार्जितं राज्यम् ।
शकारः - हीमादिके,
(नेपथ्ये ।)
'अरे रे राष्ट्रियश्यालक, एह्येहि । स्वस्याविनयस्य फलमनुभव । (ततः प्रविशति पुरुषैरधिष्ठितः पश्चाद्बाहुबद्धः शकारः ।
एव्वं दूलमदिक्कन्ते उद्दामे विअ गद्दहे ।
आणी क्खु हगे बद्धे हुडे अण्णे व्व दुक्कले ॥ ५२ ॥ (दिशोऽवलोक्य) शमन्तदो उवद्विदे एशे लश्टिअबन्धे । ताकं दाणिं अशलणे शलणं वजामि । (विचिन्त्य ) भोदु । तं ज्जेव अब्भुववण्ण
कटवध इति सूचयितुम् ॥ ५० ॥ त्वद्यानमिति ॥५१॥ एव्वमिति ॥ ५२ ॥