________________
२८४
मृच्छकटिके
हत्वा रिपुं तं बलमन्त्रिहीनं __ पौरान्समाश्वास्य पुनः प्रकर्षात् । प्राप्तं समग्रं वसुधाधिराज्यं
राज्यं बलारेरिव शत्रुराज्यम् ॥ ४७ ॥ (अग्रतो निरूप्य ।) भवतु । अत्र तेन भवितव्यम् , यत्रायं जनपदसमवायः । अपि नामायमारम्भः क्षितिपतेरार्यकस्यार्यचारुदत्तस्य जीवितेन सफलः स्यात् । (खरिततरमुपसृत्य ।) अपयात जाल्माः । (दृष्ट्वा । सहर्षम् ।) अपि ध्रियते चारुदत्तः सह वसन्तसेनया । संपूर्णाः खल्वस्मत्स्वामिनो मनोरथाः।
दिष्टया भो व्यसनमहार्णवादपारा । ___ दुत्तीर्ण गुणधृतया सुशीलवत्या । नावेव प्रियतमया चिरान्निरीक्ष्ये
ज्योत्स्नाढ्यं शशिनमिवोपरागमुक्तम् ॥ ४८ ॥ तत्कृतमहापातकः कथमिवैनमुपसर्पामि । (अथवा ।) सर्वत्रार्जवं शोभते । (प्रकाशमुपसृत्य बद्धाञ्जलिः ।) आर्यचारुदत्त । चारुदत्तः-ननु को भवान् । शर्विलक:
येन ते भवनं भित्त्वा न्यासापहरणं कृतम् ।
सोऽहं कृतमहापापस्त्वामेव शरणं गतः ॥ ४९॥ चारुदत्तः-सखे, मैवम् । त्वयासौ प्रणयः कृतः । (इति कण्टे • गृह्णाति ।) शविलक:-अन्यच्च ।
आर्यकेणार्यवृत्तेन कुलं मानं च रक्षता । पशुवद्यज्ञवाटस्थो दुरात्मा पालको हतः ॥ ५० ॥
हत्वेति ॥ ४७ ॥ दिष्टयेति ॥ ४८ ॥ येनेति ॥ ४९ ॥ आर्यकेणेति । यज्ञवाटो यज्ञस्थानम् । एतच्चापरिच्छिन्नजनसंमर्दैन प्रमादस्थानम् । तेन सर्वो