________________
दशमोऽङ्कः ।
२८३ चारुदत्तः–कस्त्वमकारणबन्धुः । भिक्षुः-ण पञ्चभिजाणादि मं अजो । अहं शे अजश्श चलणशंवाहचिन्तए शंवाहके णाम । जूदिअलेहिं गहिदे एदाए उवाशिकाए अजश्श केलकेत्ति अलंकालपणणिक्कीदे म्हि । तेण अजूदणिव्वेदेण शक्कशमणके शवुत्ते म्हि । एशावि अज्जा पवहणविपज्जाशेण पुप्फकलण्डकजिण्णुजाणं गदा । तेण अ अणजेण ण मं बहु मण्णेशि त्ति बाहुपाशबलकालेण मालिदा । मए दिट्टा । (क) .
(नेपथ्ये कलकलः।) जयति वृषभकेतुर्दक्षयज्ञस्य हन्ता
तदनु जयति भेत्ता षण्मुखः क्रौञ्चशत्रुः । तदनु जयति कृत्स्नां शुभ्रकैलासकेतुं विनिहतवरवैरी चार्यको गां विशालाम् ॥ ४५ ॥
(प्रविश्य सहसा) शर्विलकाहत्वा तं कुनृपमहं हि पालकं भो
स्तद्राज्ये द्रुतमभिषिच्य चार्यकं तम् । तस्याज्ञां शिरसि निधाय शेषभूतां
मोक्ष्येऽहं व्यसनगतं च चारुदत्तम् ॥ ४६॥
(क) न प्रत्यभिजानाति मामार्यः। अहं स आर्यस्य चरणसंवाहचिन्तकः संवाहको नाम । द्यूतकरैर्गृहीत एतयोपासिकयार्यस्यात्मीय इत्यलंकायणनिष्क्रीतोऽस्मि । तेन च द्यूतनिदेन शाक्यश्रमणकः संवृत्तोऽस्मि । एषाप्यार्या प्रवहणविपर्यासेन पुष्पकरण्डकजीर्णोद्यानं गता । तेन चानायेण न मां बहु मन्यस इति बाहुपाशबलात्कारेण मारिता । मया दृष्टा ।
केणापि । न एतद्व्यतिरिक्तेनान्येनेत्यर्थः । न प्रत्यभिजानाति । निर्वेदः शान्तिः वैषयिकेच्छानिवृत्तिः ॥ किमेतत्किमेतदिति शत्रूणां क्रूरः कलकलः ॥ जयतीति । जयति सर्वोत्कर्षेण वर्धताम् (वर्तते) । तदनु जयति आत्मसात्करोति ॥ ४५ ॥ हत्वेति । शेषभूतां पुष्पदामायमानाम् । गुणभूतामिति केचित् ॥ ४६ ॥