________________
२८२
मृच्छकटिके कुतो बाष्पाम्बुधाराभिः स्नपयन्ती पयोधरौ ।
मयि मृत्युक्शं प्राप्ते विद्येव समुपागता ॥ ४१ ॥ प्रिये वसन्तसेने,
त्वदर्थमेतद्विनिपात्यमानं
देहं त्वयैव प्रतिमोचितं मे । अहो प्रभावः प्रियसंगमस्य
__ मृतोऽपि को नाम पुनधियेत ॥ ४२ ॥ अपि च । प्रिये, पश्य ।
रक्तं तदेव वरवस्त्रमियं च माला __कान्तागमेन हि वरस्य यथा विभाति । एते च वध्यपटहध्वनयस्तथैव
जाता विवाहपटहध्वनिभिः समानाः ॥ ४३ ॥ वसन्तसेना-अदिदक्खिणदाए किं णेदं ववसिदं अजेण । (क) चारुदत्तः–प्रिये, त्वं किल मया हतेति पूर्वानुबद्धवैरेण शत्रुणा प्रभविष्णुना ।
नरके पतता तेन मनागस्मि निपातितः ॥ ४४ ॥ वसन्तसेना—(कर्णी पिधाय ।) सन्तं पावम् । तेण म्हि राअसालेण वावादिदा । (ख)
चारुदत्तः-(भिक्षु दृष्ट्वा ।) अयमपि कः । वसन्तसेना-तेण अणजेण वावादिदा । एदिणा अजेण जीवाविदम्हि । (ग)
(क.) अतिदक्षिणतया किं न्विदं व्यवसितमार्येण । (ख) शान्तं पापम् । तेनास्मि राजश्यालेन व्यापादिता । (ग) तेनानार्येण व्यापादिता । एतेनार्येण जीवं प्रापितास्मि ।
॥ ४० ॥ कुत इति । विद्या इतरविविक्तात्मज्ञानम् ॥ ४१ ॥ त्वदर्थमिति ॥ ४२ ॥ रक्तमिति । वरस्य जामातुरिव ॥ ४३ ॥ पूर्वेति ॥ ४४ ॥