________________
दशमोऽङ्कः ।
चारुदत्तः—–— (सविस्मयम् ।) Sharad शस्त्रे मृत्युवऋगते मयि । अनावृष्टिहते सस्ये द्रोणवृष्टिरिवागता ॥ ३८ ॥
( अवलोक्य च ।)
वसन्तसेना किमियं द्वितीया
समागता सैव दिवः किमित्थम् । भ्रान्तं मनः पश्यति वा ममैनां वसन्तसेना न मृताथ सैव ॥ ३९ ॥
२८१
अथवा |
किं नु स्वर्गात्पुनः प्राप्ता मम जीवातुकाम्यया । तस्या रूपानुरूपेण किमुतान्येयमागता ॥ ४० ॥ वसन्तसेना - ( सास्रमुत्थाय पादयोर्निपत्य ) अज्जचालुदत्त, ज्जेव अहं पावा, जाए कारणादो इअं तुए असरिसी अवत्था पाविदा । (क)
सा
(नेपथ्ये ।) अच्चरिअं अच्चरिअम् । जीवदि वसन्तसेना । (ख) (इति सर्वे पठन्ति 1)
चारुदत्तः– (आकर्ण्य सहसोत्थाय स्पर्शसुखमभिनीय निमीलिताक्ष एव हर्षदाक्षरम् ) प्रिये, वसन्तसेना त्वम् ।
वसन्तसेना- -सा जेवाहं मन्दभाआ । (ग)
चारुदत्तः — (निरूप्य सहर्षम् ) कथं वसन्तसेनैव । ( सानन्दम् ।)
---
(क) आर्यचारुदत्त, सैवाहं पापा, यस्याः कारणादियं त्वयासदृश्यवस्था प्राप्ता ।.
(ख) आश्चर्यमाश्चर्यम् । जीवति वसन्तसेना । (ग) सैवाहं मन्दभाग्या ।
स्तेत्यर्थः ॥ ३७ ॥ केयमिति ॥ ३८ ॥ वसन्तसेनेति ॥ ३९ ॥ किं विति