________________
२८०
मृच्छकटिके
वसन्तसेना-अजचारुदत्त, किं णेदम् । (क) (इत्युरसि पतति ।) भिक्षुः-अजचालुदत्त, किं णेदम् । (ख) (इति पादयोः पतति ।)
चाण्डाल:-(सभयमपसृत्य ।) कधम् , वशन्तशेणा । णं क्खु अ. म्हेहिं शाहू ण वावादिदे । (ग) भिक्षुः—(उत्थाय ।) अले, जीवदि चालुदत्ते । (घ) चाण्डाल:-जीवदि वश्शशदम् । (ङ) वसन्तसेना-(सहर्षम् ।) पञ्चुज्जीविदम्हि । (च)
चाण्डाल:-ता जाव एवं वुत्तं राइण्णो जण्णवाडगदश्श णिवेदेम्ह । (छ)
(इति निष्कामतः ।) शकार:—(वसन्तसेनां दृष्ट्वा सत्रासम् ।) हीमादिके । केण गब्भदाशी जीवाविदा । उक्कन्ताई मे पाणाई । भोदु । पलाइश्शम् । (ज) (इति पलायते ।)
चाण्डाल:-(उपसृत्य ।) अले, णं अम्हाणं ईदिशी लाआपणत्ती-जेण शा वावादिदा, तं मालेधत्ति । ता लट्टिअशालअं जेव अण्णेशम्ह । (झ)
(इति निष्क्रान्तौ।) (क) आर्यचारुदत्त, किं न्विदम् । (ख) आर्यचारुदत्त, किं न्विदम् । (ग) कथम् , वसन्तसेना । ननु खल्वस्माभिः साधुन व्यापादितः । (घ) अरे, जीवति चारुदत्तः । (ङ) जीवति वर्षशतम् । (च) प्रत्युज्जीवितास्मि । (छ) तद्यावदेतद्वृत्तं राज्ञो यज्ञवाटगतस्य निवेदयावः । (ज) आश्चर्यम् । केन गर्भदासी जीवनं प्रापिता । उत्क्रान्ता मे प्राणाः । भवतु । पलायिष्ये ।
(झ) अरे, नन्वस्माकमीशी राजाज्ञप्तिः—येन सा व्यापादिता, तं मारयतेति । तद्राष्ट्रियश्यालमेवान्विष्यावः ।