________________
मृच्छकटिके
चाण्डालः - चालुदत्ता, किं भीदेशि । (क)
चारुदत्तः — (सहसोत्थाय ।) मूर्ख । ( न भीतो मरणादस्मि केवलं दूषितं यशः ' (१०।२७) इत्यादि पुनः पठति ।)
२७६
चाण्डालः– अज्जचालुदत्त, गअणदले पडिवशन्ता चन्दशुज्जा व विपत्तिं हन्ति । किं उण जणा मलणभीलुआ माणवा वा । लोए कोवि उट्ठदो पडदि, कोवि पडिदोवि उट्ठेदि । उद्यन्तपडन्ताह वशणपाडिमा शवश्श उण अत्थि । एदाई हिअए कदुअ संधालेहि अत्ताअम् । (द्वितीय चाण्डालं प्रति ।) एवं चउट्टं घोशणट्टणम् । ता उग्घोशम्ह । (ख)
( पुनस्तथैवोद्घोषयतः । )
चारुदत्तः - हा प्रिये वसन्तसेने । (शशिविमलमयूख' (१०।१३ ) इत्यादि पुनः पठति ।)
(ततः प्रविशति ससंभ्रमा वसन्तसेना भिक्षुच ।)
भिक्षुः - हीमाणहे, अट्ठाणपलिश्शन्तं शमश्शाशिअ वशन्त - शेणिअं णभन्ते अणुग्गहिदम्हि पव्वज्जाए । उवाशिके, कहिं तुमं इश्शम् । (ग)
(क) चारुदत्त, किं भीतोऽसि ।
(ख) आर्यचारुदत्त, गगनतले प्रतिवसन्तौ चन्द्रसूर्यावपि विपत्तिं - भेते । किं पुनर्जना मरणभीरुका मानवा वा । लोके कोऽप्युत्थितः पतति, कोऽपि पतितोऽप्युत्तिष्ठते । उत्तिष्ठत्पततो वसनपातिका शवस्य पुनरस्ति । एतानि हृदये कृत्वा संधारयात्मानम् । एतच्चतुर्थे घोषणास्थानम् । तदुद्धो
षयावः ।
(ग) आश्चर्यम् अस्थानपरिश्रान्तां समाश्वास्य वसन्तसेनिकां नयन्नगृहीतोऽस्मि ज्यया । उपासिके, कुत्र त्वां नेष्यामि ।
॥ ३५ ॥ अट्ठाणं बुद्धस्थानम् । जीर्णस्थानरूपमेव ( ? ) । उपासिके ॥ 7 की 1