________________
दशमोऽङ्कः ।
२७५
चाण्डालः - अज्ज चालुदत्त, लाअणिओओ क्खु अवलज्झदि, ग क्खु अम्हे चाण्डाला । ता शुमलेहि जं शुमलिव्वम् । (क)
चारुदत्तः
प्रभवति यदि धर्मो दूषितस्यापि मेऽद्य प्रबलपुरुषवाक्यैर्भाग्यदोषात्कथंचित् । सुरपति भवनस्था यत्र तत्र स्थिता वा व्यपनयतु कलङ्कं स्वस्वभावेन सैव ॥ ३४ ॥
भोः, क तावन्मया गन्तव्यम् ।
चाण्डालः - ( अग्रतो दर्शयित्वा ।) अले, एदं दीशदि दक्खिणमशाणम्, जं पेक्खुिअ वज्झा झत्ति पाणाई मुञ्चन्ति पेक्ख पेक्ख । अद्धं कलेवलं पडिवुत्तं कट्टन्ति दीहगोमाआ ।
अद्धं पि शूललग्गं वेशं विअ अट्टहाशश्श || ३५ ॥ (ख) चारुदत्तः - हा, हतोऽस्मि मन्दभाग्यः । ( इति सावेगमुपविशति ।) शकारः - ण दाव गमिश्शम् । चालुदत्ताकं बावादअन्तं दाव पेक्खामि । (परिक्रम्य दृष्ट्वा ) कधं उवविश्टे । (ग)
(क) आर्य चारुदत्त, राजनियोगः खल्वपराध्यति, न खलु वयं चाण्डालाः । तस्मर यत्स्मर्तव्यम् ।
(ख) अरे एतदृश्यते दक्षिणश्मशानम्, यत्प्रेक्ष्य वध्या झटिति प्राणामुञ्चन्ति । पश्य पश्य ।
अर्धं कलेवरं प्रतिवृत्तं कर्षन्ति दीर्घ गोमायवः ।
अर्धमपि शूललभं वेश इवाट्टहासस्य ॥
(ग) न तावद्गमिष्यामि । चारुदत्तकं व्यापाद्यमानं तावत्पश्यामि । कथमुपविष्टः ।
नैवं कृतेऽस्माकं दोष इति भावः । विज्ञप्ये विज्ञापयामि । (?) शुमलिदव्वं स्मर्तव्यम् ॥ प्रभवतीति । प्रबलपुरुषा नयनिर्णेतारः । तेषां वाक्यै भीग्यदोषादूषितस्य यदि मे धर्मः प्रभवति तदा सैव वसन्तसेनैव स्वस्वभावेनात्मरूपतया व्यपनयतु ॥ ३४ ॥ गन्तव्यम् । तत्रैष मया मर्तव्यमित्यर्थः ॥ अर्धमिति ।