________________
२७४
मृच्छकटिके
द्वितीयः-किंणिमित्तम् । (क)
प्रथम:-अले, भणिदो म्हि पिदुणा शग्गं गच्छन्तेण, जधापुत्त वीरअ, जइ तुह वज्झपालिआ होदि, मा शहशा वावादअशि वज्झम् । (ख)
द्वितीयः-अले, किंणिमित्तम् । (ग) • प्रथमः-कदावि कोवि साहू अत्थं दइअ वझं मोआवेदि। कदावि लण्णो पुत्ते भोदि, तेण वद्धावेण शव्ववज्झाणं मोक्खे होदि । कदावि हत्थी बन्धं खण्डेदि, तेण शंभमेण वझे मुक्के होदि । कदावि लाअपलिवत्ते होदि, तेण शव्ववज्झाणं मोक्खे होदि । (घ)
शकारः-किं किं लाअपलिवत्ते होदि । (ङ) चाण्डालः-अले, वज्झपालिआए लेक्खों कलेम्ह । (च) शकारः-अले, शिग्धं मालेघ चालुदत्ताकम् । (छ) (इत्युक्त्वा चेटं गृहीत्वैकान्ते स्थितः।) (क) किंनिमित्तम् ।
(ख) अरे, भणितोऽस्मि पित्रा वर्ग गच्छता, यथा-पुत्र वीरक, यदि तव वध्यपालिका भवति, मा सहसा व्यापादयसि वध्यम् ।
(ग) अरे, किंनिमित्तम् ।
(घ) कदापि कोऽपि साधुरथं दत्त्वा वध्यं मोचयति । कदापि राज्ञः पुत्रो भवति, तेन वृद्धिमहोत्सवेन सर्ववध्यानां मोक्षो भवति कदापि हस्ती बन्धं खण्डयति, तेन संभ्रमेण वध्यो मुक्तो भवति । कदापि राजपरिवर्तो भवति, तेन सर्ववध्यानां मोक्षो भवति ।
(ङ) किं किं राजपरिवर्तो भवति । (च) अरे, वध्यपालिकाया लेखं कुर्मः । (छ) अरे, शीघ्रं मारयत चारुदत्तम् । वीरक इति चण्डालनाम ॥ बन्धं खण्डेदि बन्धमाच्छिद्य प्रसरति ॥ चालुदत्ताकं अरे मारयितुं तव मया समर्पितः । त्वं मम कर्तव्यमित्यर्थः (2)॥ वयं चण्डालाः ।
.