________________
दशमोऽङ्कः ।
२७३
भणावेध इमिणा जज्जलवंशखण्डेण शङ्खलेण तालिअ तालिअ । (क) चाण्डालः – (प्रहारमुद्यम्य ) भो चालुदत्त, भणाहि । (ख)
चारुदत्तः -- ( सकरुणम् 1) प्राप्यैतद्वयसनमहार्णवप्रपातं
न वासो न च मनसोऽस्ति मे विषादः । एक मां दहति जनापवादवहि
वक्तव्यं यदिह मया हता प्रियेति ॥ ३३ ॥ ( शकारः पुनस्तथैव ।)
चारुदत्तः- - भो भोः पौराः । ( ' मया खलु नृशंसेन' (९।३०,३८)
इत्यादि पुनः पठति ।)
शकार : - वावादिदा । (ग)
चारुदत्तः — एवमस्तु ।
प्रथमचाण्डालः - अले, तव अत वज्झपालिआ । (घ) द्वितीयचाण्डालः - अले, तव । (ङ)
प्रथमः- अले, लेक्ख कलेम्ह । (इति बहुविधं लेखक कृता ।) अले, जदि ममकेलिका वज्झपालिआ ता चिट्ठदु दाव मुहुत्तम् । (च)
(क) अरे चाण्डालमनुष्य, न भणति चारुदत्तबटुकः । तद्भणयतानेन जर्जरवंशखण्डेण शङ्खलेन ताडयित्वा ताडयित्वा ।
(ख) भोश्चारुदत्त, भण ।
(ग) व्यापादिता ।
(घ) अरे, तवात्र वध्यपालिका ।
(ङ) अरे, तव ।
(च) अरे, लेखं कुर्मः । अरे, यदि मदीया वध्यपालिका, तदा तिष्ठतु तावन्मुहूर्तकम् ।
एतावता । एवमेवेत्यर्थः । इदानीमित्येके ॥ सङ्खलेन वध्यपटहवादनदण्डेन | तालिअ ताडयित्वा ॥ प्राप्येति ॥ ३३ ॥ वज्झपालिआ वधपर्यायः ॥ अरे, तव ॥