________________
दशमोऽङ्कः।
२७१
चाण्डालौ-भट्टके, पिडिअ एवं चेडं णिक्खालेहि । (क)
शकार:-णिकम ले । (इति निष्कामयति ।) अले चाण्डाला, किं विलम्बेध । मालेध एदम् । (ख)
चाण्डालौ-जदि तुवलशि ता शरं जेव मालेहि । (ग) रोहसेनः-अले चाण्डाला, मं मारेध । मुञ्चध आवुकम् । (घ) शकारः-शपुत्तं जेव एवं मालेध । (ङ) चारुदत्तः-सर्वमस्य मूर्खस्य संभाव्यते । तद्गच्छ पुत्र, मातुः समीपम् ।
रोहसेनः-किं मए गदेण कादव्वम् । (च) चारुदत्तः
आश्रमं वत्स गन्तव्यं गृहीत्वाद्यैव मातरम् ।
मा पुत्र पितृदोषेण त्वमप्येवं गमिष्यसि ॥ ३२ ॥ तद्वयस्य, गृहीत्वैनं ब्रज। ' विदूषकः-भो वअस्स, एव्वं तुए जाणिदम् , तुए विणा अहं पाणाई धारेमि त्ति । (छ)
चारुदत्तः-वयस्य, स्वाधीनजीवितस्य न युज्यते तव प्राणपरित्यागः ।
(क) भट्टक, ताडयित्वैतं चेटं निष्कासय । (ख) निष्काम रे । अरे अरे चाण्डालाः, किं विलम्बध्वम् । मारयतैनम् । (ग) यदि त्वरयसे तदा स्वयमेव मारय । (घ) अरे चाण्डालाः, मां मारयत । मुञ्चत पितरम् । (ङ) सपुत्रमेवैतं मारयत ।
(च) किं मया गतेन कर्तव्यम् । .. (छ) मो वयस्य, एवं त्वया ज्ञातम्, त्वया विनाहं प्राणान्धारयामीति । तुवलशि त्वरसे ॥ आश्रममिति ॥ इरे॥ किं ओहशशीत्यादि । गाथा । किमवहससि हे ज्ञक (2) पुरुषं दृष्ट्वा दैवपर्यस्तम् । विदितं न त्वमत्पी (त्यी?) वत हे