________________
२७०
मृच्छकटिके
चेट :- (गृहीत्वा ।) पेक्खध पेक्खध भट्टालका । हो, शुवपण मं पलोभेदि । (क)
I
शकार : - ( कटकमाच्छिद्य ) एशे शे शुवण्णके, जश्श कालणादो मए बद्धे । (सक्रोधम् ।) हंहो चाण्डाला, मए क्खु एशे शुवण्णभण्डाले णिउत्ते शुवण्णं चोलभन्ते मालिदे पिश्टदे । ता जदि ण पत्तिआभध ता पिरिंट दाव पेक्खध । (ख)
चाण्डालौ – (1) शोहणं भणादि । वितत्ते चेडे किं ण प्लवदि । (ग)
चेट:- हीमादिके, ईदिशे दाशभावे, जं शचं कंपि ण पत्तिआअदि । (सकरुणम् ।) अज्जचालुदत्त, एत्तिके मे विहवे । (घ) ( इति पादयोः पतति 1)
चारुदत्तः - (सकरुणम् ।) उत्तिष्ठ भोः पतितसाधुजनानुकम्पिनिष्कारणोपगतबान्धव धर्मशील ।
यत्नः कृतोऽपि सुमहान्मम मोक्षणाय दैवं न संवदति किं न कृतं त्वयाद्य ॥ ३१ ॥
कार्यस्य साक्षी । एवं तावत्करिष्यामि । अलीकं भट्टारकाः । अहो, एष चेटः सुवर्णचोरिकया मया गृहीतस्ताडितो मारितो बद्धश्च । तत्कृतवैर एव यद्भणति किं सत्यम् । पुत्रक स्थावरक चेट, एतद्गृहीत्वान्यथा भण |
(क) पश्यत पश्यत भट्टारकाः । अहो, सुवर्णेन मां प्रलोभयति । (ख) एतत्तत्सुवर्णकम्, यस्य कारणान्मया बद्धः । हंहो चाण्डालाः, मया खल्वेष सुवर्णभाण्डारे नियुक्तः सुवर्ण चोरयन्मारितस्ताडितः। तद्यदि न प्रत्ययध्वं तदा पृष्ठं तावत्पश्यत ।
(ग) शोभनं भणति । वितप्तश्चेटः किं न प्रलपति ।
(घ) हन्त, ईदृशो दासभावः, यत्सत्यं कमपि न प्रत्यापयति । आर्यचारुदत्त, एतावान्मे विभवः ।
ममाकार्यसाक्षी । किदवेले कृतवैरः ॥ विहवे सामर्थ्यम् ॥ उत्तिष्ठेति ॥ ३१ ॥