________________
प्रथमोऽङ्कः ।
द्विजमुख्यतमः कविर्बभूव
प्रथितः शूद्रक इत्यगाधसत्त्वः ॥ ३ ॥
·
अपि च ।
ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां
ज्ञात्वा शर्वप्रसादाद्वयपगततिमिरे चक्षुषी चोपलभ्य । राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा
लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ॥ ४ ॥
अपि च ।
समरव्यसनी प्रमादशून्यः ककुदं वेदविदां तपोधनश्च ।
परवारणबाहुयुद्धलुब्धः
क्षितिपालः किल शूद्रको बभूव ॥ ५ ॥
अस्यां च तत्कृतौ
३
अवन्तिपुर्यां द्विजसार्थवाहो
युवा दरिद्रः किल चारुदत्तः । गुणानुरक्ता गणिका च यस्य वसन्तशोभेव वसन्तसेना ॥ ६ ॥
i
इति स्मृतेः क्षत्रियेऽपि द्विजप्रयोगः ॥ ३ ॥ [ऋग्वेदमिति ॥] वेशोऽत्र कास्र्त्स्न्येन वेश्यापरः । तत्र भवा विद्यमाना । अध्यात्मादित्वाद्रक् । यद्वा वेशोऽग्निनिवेशाख्यो राजा तेन कृताम् । कलां चतुःषष्टिकलाप्रतिपादकं प्रबन्धम् । शर्वो महादेवः । लब्ध्वा चायुः शताब्दमग्निं प्रविष्ट इति जातकादिगणितद्वारा ज्ञात्वा । आगामिसूत्रधारवचनापेक्षया 'अग्निं प्रविष्ट:' इत्यादिभूतकालप्रत्ययो न विरुद्ध इति मर्मज्ञाः । अग्निप्रवेशोऽपि सर्वस्वारनाम के यज्ञविशेषे यथा शुरभङ्गेन (ण) कृतस्तथा बोद्धव्यम् ॥ ४॥ समरेति । ककुदं चिह्नभूतं
चामरः --- ' प्रावीण्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्' इति । वारणो हस्ती ॥ ५ ॥ अवन्तीति । अवन्तिपुर्युज्जयिनी । 'अस्यां च तत्कृतौ अवन्ति-' इत्या