SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके अपि च । पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः । गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥ २ ॥ (नान्द्यन्ते) सूत्रधारः-अलमनेन परिषत्कुतूहलविमर्दकारिणा परिश्रमेण । एवमहमार्यमिश्रान्प्रणिपत्य विज्ञापयामि-यदिदं वयं मृच्छकटिकं नाम प्रकरणं प्रयोक्तुं व्यवसिताः । एतत्कविः किल द्विरदेन्द्रगतिश्चकोरनेत्रः __ परिपूर्णेन्दुमुखः सुविग्रहश्च । . षापाठको वीरकचन्दनको । प्राच्यभाषापाठको विदूषकः । संवाहकर शकारवसन्तसेनाचारुदत्तानां चेटकत्रितयं भिक्षुश्चारुदत्तदारकः-एते षण्मागधीपाठकाः । अपभ्रंशपाठकेषु शकारीभाषापाठको राष्ट्रियः । चाण्डालीभाषापाठको चाण्डालौ । ढकभाषापाठको माथुरद्यूतकरौ। तथा—शौरसेन्यवन्तिजा प्राच्या-एतासु द. न्त्यसकारता । तत्रावन्तिजा रेफवती लोकोक्तिबहुला । प्राच्या वार्थिकककारप्राया। मागधी तालव्यशकारवती । शकारीचाण्डाल्योस्तालव्यशकारता । रेफस्य च लकारता । वकारप्राया ढकविभाषा । संस्कृतप्रायत्वे दन्यतालव्यसशकारद्वययुक्ता च । 'अपार्थमक्रमं व्यर्थ पुनरुक्तं हतोपमम् । लोकन्यायविरुद्धं च शकारवचनं विदुः ॥' अपार्थ निरर्थकम् । व्यर्थ विरुद्धार्थम् । यद्वा । निश्चितानन्वयं पदजातं वाक्यजातं चापार्थकम् । व्यर्थ निरर्थकमेव । हतोपमं व्याहतोपमम् । 'शकारप्रायभाषित्वाच्छकारो राष्ट्रियः स्मृतः । एकविद्यो विटश्चान्यो हास्यकृच्च विदूषकः ॥' स्वार्थिकः ककारः सर्वत्र । द्विवचनं चतुर्थीविभक्तिश्च नास्त्येव । द्वित्वे तु बहुवचनम् । चतुर्यर्थे षष्टी । परस्मैपदात्मनेपदविपर्ययः । पूर्वनिपातानियमश्च । बहुलं छन्दसो निदर्शनमप्रसिद्धच्छन्दोज्ञानार्थम् । पाठविप्लवनिरासार्थ च ॥ पर्यङ्केत्यादि । पर्यङ्कः पर्यस्तिका तस्य बन्धनेन द्विगुणितो यो भुजङ्गस्तस्य संबन्धेन स्थगितं जानु यस्य । आत्मनि शरीर एवोपरतं करणमिन्द्रियं यथा स्यादेवं तत्त्वदृष्टयानारोपितज्ञानेन शून्येक्षणे निराकारालोचने घटितोऽत्यन्तसंबद्धो यो लयस्तत्प्रवणताविशेषस्तेन ब्रह्मणि परमे रूप आसक्तः समाधिर्ध्यानमीशस्य वो युष्मान्रक्षतु ॥ १॥ [पात्विति ॥ २॥] आर्यान्मान्यान् , मिश्रानभ्यस्तबहुशास्त्रान् । चारुदत्तपुत्ररोहसेनक्रीडनार्थ षष्ठेऽङ्क उक्तं मृच्छकटमत्रास्ति । 'अत इनि ठनौ' इति ठन् । मृदः शकटिकास्मिन्निति वा बहुव्रीहिः । द्विरदेन्द्रेति ।] द्विजमुख्यतमः क्षत्रजातिश्रेष्ठः । 'त्रयो वर्णा द्विजातयः'
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy