________________
॥ श्रीः ॥
मृच्छकटिकम् ।
प्रथमोऽङ्कः। पर्यङ्कग्रन्थिबन्धद्विगुणितभुजगाश्लेषसंवीतजानो
रन्तःप्रांणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य । आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या शंभोः पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥ १ ॥
मृच्छकटिकाविवृतिः। शेमुषीप्रौढजीवातुर्विवृतिर्मृच्छकटिके ।
पृथ्वीधरैश्चिकीर्षद्भिर्गणेशो गण्यते गुरुः ॥ तथा
बालानां सुखबोधाय गुरूणां वचनं शुभम् ।
लिख्यते गहनेऽप्यत्र हेरम्बावनतिस्थिरैः ॥ प्रकरणं चेदम् । तस्य च लक्षणम्-'यत्र कविरात्मबुद्धया वस्तु शरीरं च नायकं चैव । विरचयति समुत्पाद्य तज्ज्ञेयं प्रकरणं नाम ॥ चतस्रो वृत्तयः पञ्च संधयोऽष्टरसादयः। प्रकरणतो नाटकं विहाय नृपनायकम् (2) ॥' आदिशब्दात्षड्रसादिग्रहणम् । नाटकादौ बहुप्रकारप्राकृतप्रपञ्चेषु चतस्र एव भाषाःप्रयुज्यन्ते-शौरसेन्यवन्तिकाप्राच्यामागध्यः । अपभ्रंशप्रपञ्चेषु चतस्र एव भाषाः प्रयुज्यन्ते-शकारीचाण्डालीशाबरीढक्कदेशीयाः। मृच्छकटिके तु शबरपात्राभावाच्छाबरी नास्ति । प्राकृते'मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी । बाल्हीका दाक्षिणात्या च सप्तभाषाः प्रकीर्तिताः ॥' महासष्ट्रयादयः काव्य एव प्रयुज्यन्ते । अपभ्रंशे-'शकाराभीरचाण्डालशबरद्राविडोडूजाः । हीना वनेचराणां च विभाषाः सप्त कीर्तिताः ॥' विविधा भाषा विभाषाः। हीनपात्रप्रयोज्यत्वाद्धीनाः । वनेचराणां चेति ढकभोषासंग्रहः । तत्रास्मिन्प्रकरणे प्राकृतपाठकेषु सूत्रधारो नटी रदनिका मदनिका वसन्तसेना तन्माता चेटी कर्णपूरकश्चारुदतबाह्मणी शोधनकः श्रेष्ठी-एते एकादश शौरसेनीभाषापाठकाः । सूत्रधारोऽप्यत्र प्राकृती । 'कार्यवशात्' इति वक्ष्यते । अवन्तिभा