________________
दशमोऽङ्कः ।
२६३
दारकः - अरे रे चाण्डाला, कहिं मे आवुकं णेध । (क)
--
चारुदत्तः—– त्रत्स,
अंसेन बिभ्रत्करवीरमालां स्कन्धेन शूलं हृदयेन शोकम् । आघातमद्याहमनुप्रयामि शामित्रमालब्धुमिवाध्वरेऽजः ॥ २१ ॥
चाण्डाल :- दालआ,
"
हु अम्हे चाण्डाला चाण्डालकुलम्मि जादपुव्वा वि ।
ૐ
जे अहिभवन्ति शाहं ते पावा ते अ चाण्डाला ॥ २२ ॥ (ख)
दारकः - ता कीस मारेध आवुकम् । (ग)
चाण्डालः - दीहाभ, अत्त लाअणिओओ क्खु अवलज्झदि, क्खु अम्हे । (घ)
अन्यच्च ।
शुष्का अपि प्रदेशा अस्य किं विनमितमस्तकेन कर्तव्यम् । राहुगृहीतोऽपि चन्द्रो न वन्दनीयो जनपदस्य || (क) अरे रे चाण्डालाः, कुत्र मम पितरं नयत । (ख) दारक,
न खलु वयं चाण्डालाश्चाण्डालकुले जातपूर्वा अपि । येऽभिभवन्ति साधुं ते पापास्ते च चाण्डालाः ॥
(ग) तत्किमर्थे मारयत पितरम् ।
(घ) दीर्घायुः, अत्र राजनियोगः खल्वपराध्यति, न खलु वयम् ।
नतशिरसोऽपि न कुत्सेत्यर्थः । कुत एवमित्यत आह-राहुगृहीत इव चन्द्रो चन्दनीयो जनपदस्य । किंशब्द आवय भयोरर्थयोर्योज्य इत्याहुः ॥ २० ॥ अंसेने - ति । आघातं अधिकरणवस्थानम् । वालकम् (?) 'स (श) मिता यज्ञे' इति पाणिनेः सूत्रम् । शमितरि भवं शामित्रम् । यज्ञे पशुघातस्थानम् । आलब्धोऽभिमन्त्रितः । मारित इत्येके ॥ २१ ॥ ण हु अहे इत्यादि । गाथा | 'न [खलु] वयं चाण्डालाश्चाण्डालकुले जातपूर्वा अपि । येऽभिभवन्ति साधुं ते पापास्ते