________________
२६२
मृच्छकटिके
चारुदत्तः-(पुत्रं मित्रं च वीक्ष्य ।) हा पुत्र, हा मैत्रेय । (सकरुणम् ।) भोः, कष्टम् ।
चिरं खलु भविष्यामि परलोके पिपासितः ।
अत्यल्पमिदमस्माकं निवापोदकभोजनम् ॥ १७॥ किं पुत्राय प्रयच्छामि । (आत्मानमवलोक्य । यज्ञोपवीत दृष्ट्वा ।) आं, इदं . तावदस्ति मम च । __ अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणम् ।
देवतानां पितृणां च भागो येन प्रदीयते ॥ १८ ॥ (इति यज्ञोपवीतं ददाति ।)
चाण्डाल:-आअच्छ ले चालुदत्ता, आअच्छ । (क)
द्वितीयः-अले, अजचालुदत्तं णिलुववदेण णामेण आलवेशि । अले, पेक्ख ।
अब्भुदए अवशाणे तहे अ लतिंदिवं महदमग्गा।
उद्दामे व्व किशोली णिअदी क्खु पडिच्छिदं जादि ॥१९॥ अण्णं च।
शुक्खा वि वदेशा शे किं विणमिभमत्थएण कामव्वम् । लाहुगहिदे वि चन्दे ण वन्दणीए जणपदश्श ॥ २० ॥ (ख) (क) आगच्छ रे चारुदत्त, आगच्छ । (ख) अरे, आर्यचारुदत्तं निरुपपदेन नानालपसि । अरे, पश्य ।
अभ्युदयेऽवसाने तथैव रात्रिंदिवमहतमार्गा ।
उद्दामेव किशोरी नियतिः खलु प्रत्येषितुं याति ॥ हत्थादो हस्तात् ॥ हा आवुक पितः॥चिरमिति ॥१७॥अमौक्तिकमिति ॥१८॥ निरुपपदेन आर्य इत्यादिविशेषणशून्येन । अब्भुदए इत्यादि । गाथा । अभ्युदये चावसाने च तथैव रात्रिंदिवमहतमार्गा । अव्याहतप्रसिद्धा इत्यर्थः । उद्दामेव किशोरी नियतिर्दे(4)वं खलु प्रत्येषितुं याति ॥१९॥ शुष्केत्यादि । गाथा अत्र द्वितीयखण्डचतुर्थपञ्चमगागौ पञ्चममात्रौ(?) शुष्का अपि प्रदेशा अङ्गानि । शे अस्य । किं विनमितमस्तकेन अवनतशिरसा किं कर्तव्यम् । अस्य स्त्री ह] णस्य लज्जया