SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ दशमोऽङ्कः । २६१ (नेपथ्ये ।) हा ताद, हा पिभवअस्स । (क) चारुदत्तः—(आकर्ण्य सकरुणम् ।) भोः स्वजातिमहत्तर, इच्छा. म्यहं भवतः सकाशात्प्रतिग्रहं कर्तुम् । चाण्डालो-किं अह्माणं हत्थादो पडिग्गहं कलेशि । (ख) चारुदत्तः-शान्तं पापम् । नापरीक्ष्यकारी दुराचारः पालक इव चाण्डालः । तत्परलोकार्थ पुत्रमुखं द्रष्टुमभ्यर्थये । चाण्डालौ-एवं कलीभदु । (ग) (नेपथ्ये ।) हा ताद, हा आवुक । (घ) (चारुदत्तः श्रुखा सकरुणम् 'भोः खजातिमहत्तर' (२६१ पृष्टे) इत्यादि पठति ।) चाण्डालौ-अले पउला, खणं अन्तलं देध । एशे अजचालुदत्ते पुत्तमुहं पेक्खदु । (नेपथ्याभिमुखम् ।) अन्ज, इदो इदो । आअच्छ ले दालभा, आअच्छ । (ङ) - (ततः प्रविशति दारकमादाय विदूषकः ।) विदूषकः-तुवरदु तुवरदु भद्दमुहो । पिदा दे मारिदुं णीअदि । (च) दारकः-हा ताद, हा आवुक । (छ) विदूषकः-हा पिअवअस्स, कहिं मए तुमं पेक्खिदव्वो। (ज) (क) हा तात, हा प्रियवयस्य । (ख) किमस्माकं हस्तात्प्रतिग्रहं करोषि । (ग) एवं क्रियताम् । (घ) हा तात, हा पितः । (ङ) हे पौराः, क्षणमन्तरं दत्त । एष आर्यचारुदत्तः पुत्रमुखं पश्यतु । आर्य, इत इतः । आगच्छ रे दारक, आगच्छ । (च) त्वरतां त्वरतां भद्रमुखः । पिता ते मारयितुं नीयते । (छ) हा तात, हा पितः। (ज) हा प्रियवयस्य, कुत्र मया त्वं द्रष्टव्यः ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy