________________
२६०
मृच्छकटिके
तव वदनभवामृतं निपीय
कथमवशो ह्ययशोविषं पिबामि ॥ १३ ॥ . उभौ-ओशलध अज्जा ओशलध । एशे गुणलअणणिही शजणदुक्खाण उत्तलणशेदू ।
अशुवण्णं मण्डणअं अवणीअदि अन्ज णअलीदो ॥ १४ ॥ . अण्णं च ।
शव्वे क्खु होइ लोए लोए शुहशंठिदाण तत्तिल्लः । विणिवडिदाण णलाणं पिअकाली दुल्लहो होदि ॥ १५ ॥ (क) चारुदत्तः-(सर्वतोऽवलोक्य ।)
अमी हि वस्त्रान्तनिरुद्धवत्राः
प्रयान्ति मे दूरतरं वयस्याः । परोऽपि बन्धुः समसंस्थितस्य
मित्रं न कश्चिद्विषमस्थितस्य ॥ १६ ॥ चाण्डालो-ओशालणं किदम् । विवित्तं लाअमग्गम् । ता आणेध एवं दिण्णवज्झचिण्हम् । (ख) ___ (चारुदत्तो निःश्वस्य 'मैत्रेय भोः किमिदमद्य' (९।२९) इत्यादि पठति ।) (क) अपसरतार्याः, अपसरत ।
एष गुणरत्ननिधिः सज्जनदुःखानामुत्तरणसेतुः । असुवर्ण मण्डनकमपनीयतेऽद्य नगरीतः ॥
अन्यञ्च ।
सर्वः खलु भवति लोके लोकः सुखसंस्थितानां चिन्तायुक्तः ।
विनिपतितानां नराणां प्रियकारी दुर्लभो भवति ॥ (ख) अपसारणं कृतम् । विविक्तो राजमार्गः । तदानयतैनं दत्तवध्यचिह्नम् ।
॥१३॥ एश इत्यादि । गाथाद्वयम् । एष गुणरत्ननिधिः सज्जनदुःखानामुत्तरणसेतुः । असुवर्ण मण्डनमपनीयतेऽद्य नगरीतः ॥ १४ ॥ सर्वः खलु भवति लोकः लोकस्य सुखसंस्थितस्य कार्ये । तत्तिल्लः चिन्तापरः । उपयुक्त इत्यर्थः । विनिपतितानां नराणां प्रियकारी दुर्लभो भवति ॥ १५ ॥ अमी इति ॥ १६ ॥