________________
दशमोऽङ्कः।
२५९ चाण्डालौ-आअच्छ ले चालुदत्ता आअच्छ । इमं घोषणद्वाणम् । आहणेध डिण्डिमम् । घोशेध घोशणम् । (क)
उभौ---शुणाध अजा, शुणाध । एशे शत्थवाहविणअदत्तश्श णत्थिके शामलदत्तश्श पुत्तके अजचालुदत्ते णाम । एदिणा किल अकज्जकालिणा गणिआ वशन्तशेणा अत्थकल्लवत्तश्श कालणादो शुण्णं पुप्फकलण्डअजिण्णुजाणं पवेशिअ बाहुपाशबल्लकालेण मालिदे त्ति एशे शलोत्ते गहिदे, शअं अं पडिवण्णे । तदो लण्णा पालएण अम्हे आण्णत्ता एवं मालेदुम् । जदि अवले ईदिशं उभअलोअविलुद्धं अकजं कलेदि तं पि लाआ पालए एव्वं जेव शाशदि । (ख) . चारुदत्तः-(सनिर्वेदं खगतम् ।)
मखशतपरिपूतं गोत्रमुद्भासितं मे । सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् । मम मरणदशायां वर्तमानस्य पापै
स्तदसदृशमनुष्यैर्युष्यते घोषणायाम् ॥ १२ ॥ (उद्वीज्य कौँ पिधाय ।) हा प्रिये वसन्तसेने,
शशिविमलमयूखशुभ्रदन्ति
सुरुचिरविद्रुमसन्निभाधरौष्ठि । (क) आगच्छ रे चारुदत्त, आगच्छ । इदं घोषणस्थानम् । आहत डिण्डिमम् । घोषयत घोषणाम् ।
(ख) शृणुतार्याः, शृणुत । एष सार्थवाहविनयदत्तस्य नप्ता सागरदत्तस्य पुत्रक आर्यचारुदत्तो नाम । एतेन किलाकार्यकारिणा गणिका वसन्तसेनार्थकल्यवर्तस्य कारणाच्छून्यं पुष्पकरण्डकजीर्णोद्यानं प्रवेश्य बाहुपाशबलात्कारण मारितेति एष सलोप्तो गृहीतः, स्वयं च प्रतिपन्नः । ततो राज्ञा पालकेन चयमाज्ञप्ता एतं मारयितुम् । यद्यपर ईदृशमुभयलोकविरुद्धमकार्य करोति तमपि राजा पालक एवमेव शास्ति । शलोत्ते सलोत्रः ॥ मखेति ॥ १२ ॥ उद्वीज्य उद्वेगं कृत्वा । शशीति