________________
दशमोऽङ्कः ।
२५७
चारुदत्तः-पुरुषभाग्यानामचिन्त्याः खलु व्यापाराः, यदहमीदृशीं दशामनुप्राप्तः।
सर्वगात्रेषु विन्यस्तै रक्तचन्दनहस्तकैः ।
पिष्टचूर्णावकीर्णश्च पुरुषोऽहं पशुकृतः ॥ ५॥ (अग्रतो निरूप्य ।) अहो, तारतम्यं नराणाम् । (सकरुणम् ।)
अमी हि दृष्ट्वा मदुपेतमेत
न्मयं धिगस्त्वित्युपजातबाष्पाः । अशक्नुवन्तः परिरक्षितुं मां
वर्ग लभस्वेति वदन्ति पौराः ॥ ६ ॥ चाण्डालो-ओशलध अजा, ओशलध । किं पेक्खध । इन्दे प्पवाहिअन्ते गोप्पशवे संकमं च तालाणम् । शुपुलिशपाणविपत्ती चत्तालि इमे ण दट्टव्वा ॥ ७ ॥ (क) एक:-हण्डे आहीन्ता, पेक्ख पेक्ख ।
किं पश्यत छिद्यमानं सत्पुरुषं कालपरशुधाराभिः ।
सुजनशकुनाधिवासं सज्जनपुरुषद्रुममेतम् ॥ आगच्छ रे चारुदत्त, आगच्छ। (क) अपसरतार्याः, अपसरत । किं पश्यत ।
इन्द्रः प्रवाह्यमाणो गोप्रसवः संक्रमश्च ताराणाम् । सुपुरुषप्राणविपत्तिश्चत्वार इमे न द्रष्टव्याः ॥
पक्वधेति । गाथा । किं प्रेक्ष्यथ छेद्यमानं सत्पुरुषं कालपरशुधाराभिः । सुज. नशकुनाधिवासं सज्जनपुरुषद्रुममेतम् ॥ ४ ॥ सर्वेति । पिष्टचूर्ण श्यामतण्डुलचूणम् । पशुर्देवतार्थ छागादिः ॥५॥ अमी इति । मदुपेतं मदर्पितं यथा स्यादेवम्। . उद्गतबाष्पाः । मदिति पञ्चम्येकवचनान्तम् । मदुपगतमीदृशमवस्थान्तरं दृष्ट्वेति वार्थः ॥ ६ ॥ इन्द्रेत्यादि । माथा । इन्द्रः प्रवास्यमानो यद्वा प्रवाह्यमानो विवर्धमानः । गोप्रसवो निपतनं च ताराणाम् । सत्पुरुषस्य प्राणविपत्तिर्नाशः ।