________________
दशमोऽङ्कः ।
(ततः प्रविशति चाण्डालद्वयेनानुगम्यमानश्चारुदत्तः 1)
उभौ
तक्किं ण कलअ कालण णववहबन्धणअणे णिउणा । अचिलेण शीशछेअणशूलालोवेशु कुशलम्ह ॥ १ ॥ ओशलध अज्जा, ओशलध । एशे अज्जचालुदत्ते
दिण्णकलवीलदामे गहिदे अम्हेहिं वज्झपुलिसेहिं । दीवे व्व मन्दणे थो थोभं खअं जादि ॥ २ ॥ (क) चारुदत्त : - (सविषादम् ।)
नयनसलिलसिक्तं पांशुरुक्षीकृताङ्गं पितृवनसुमनोभिर्वेष्टितं मे शरीरम् । विरसमिह रटन्तो रक्तगन्धानुलिप्तं
बलिमिव परिभोक्तुं वायसास्तर्कयन्ति ॥ ३ ॥ चाण्डालो-ओशलध अज्जा, ओशलध । किं पेक्खध छिज्जन्तं शप्पुलिशं कालपलेशुधालाहिं । शुभणशउणाधिवाशं राज्जणपुलिशङ्कुमं एदम् ॥ ४ ॥ आअच्छ ले चालुदत्ता, आअच्छ । (ख)
(क) तत्किं न कलय कारणं नववधबन्धनयने निपुणौ । अचिरेण शीर्षच्छेदनशूलारोपेषु कुशलौ स्वः ॥ अपसरतार्याः अपसरत । एष आर्यचारुदत्तः
दत्तकरवीरदामा गृहीत आवाभ्यां वध्यपुरुषाभ्याम् । दीप इव मन्दस्नेहः स्तोकं स्तोकं क्षयं याति ॥ (ख) अपसरतार्याः, अपसरत ।
तकमिति ॥ १ ॥ दिष्णकलवीलेत्यादि । गाथा । दत्तकरवीरमालो गृहीत आवाभ्यां वध्य पुरुषाभ्याम् । दीप इव मन्दस्नेहः स्तोकं स्तोकं क्षयं याति ॥ २ ॥ नयनेति । पितृवनं श्मशानम् । तर्कयन्ति उत्प्रेक्षन्ते ॥ ३ ॥ किं